पूर्वम्: ३।२।१७२
अनन्तरम्: ३।२।१७४
 
सूत्रम्
शॄवन्द्योरारुः॥ ३।२।१७३
काशिका-वृत्तिः
शृ̄वन्द्योरारुः ३।२।१७३

शृ̄ हिंसायाम्, वदि अभिवादनस्तुत्योः, एताभ्यां धातुभ्यां तच्छीलादिषु कर्तृषु आरुः प्रत्ययो भवति। शरारुः। वन्दारुः।
न्यासः
शृवन्द्योरारुः , ३।२।१७३

शृणोतेः "लषपत" ३।२।१५४ इत्यादिनोकञपि भवति। वन्दतेः "अनुदात्तेतश्च" ३।२।१४९ इत्यादिना युचि प्राप्ते वचनमिदम्॥
बाल-मनोरमा
शृवन्द्योरारुः ९५५, ३।२।१७३

शृवन्द्योरारुः। पञ्चमर्थे षष्ठी। "शृ? हिंसायां" "वदि अभिवादनस्तुत्योः"। आभ्याम् आरुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः।

तत्त्व-बोधिनी
शवन्द्योरारुः ७८४, ३।२।१७३

* क्रुकन्नपीति। अत एव "भीलुभीलुकभीरुकाः" इत्यमरः।