पूर्वम्: ३।२।१७४
अनन्तरम्: ३।२।१७६
 
सूत्रम्
स्थेशभासपिसकसो वरच्॥ ३।२।१७५
काशिका-वृत्तिः
स्थाईशभासपिसकसो वरच् ३।२।१७५

ष्ठा गतिनिवृत्तौ, ईश ऐश्वर्ये, भासृ दीप्तौ, पिसृ पेसृ गतौ, कस गतौ, एतेभ्यस् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति। स्थावरः। ईश्वरः। भास्वरः। पेस्वरः। विकस्वरः।
न्यासः
स्थेशभासपिकसकसो वरच्। , ३।२।१७५

"स्थावरः"इति। "एकाच"७।२।१० इत्यादिनेट्प्रतिषेधः।"ई()आरः" इत्यादावपि "नेड्? वशि कृति" ७।२।८ इति। तिष्ठतेः पूर्वसूत्रविहितौ क्स्नूकञावपि वचनाद्भवतः। ईशभासोः पूर्ववद्युचि प्राप्त इदं वचनम्।
बाल-मनोरमा
स्थेशभासपिसकसो वरच् ९५७, ३।२।१७५

स्थेश। ष्ठा गतिनिवृत्तौ, ईश ऐ()आर्ये, भासृ दीप्तौ, पिसू पेसृ गतौ, कस गतौ,एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः। ई()आरीति तु पुंयोगे ङीष्।

तत्त्व-बोधिनी
स्थेशभासपिसकसो वरच् ७८५, ३।२।१७५

ई()आर इति। "नेड्वशी"तीडभावः। पेस्वर इति। पिसृ पेसृ गतौ। कस्वर इति। कस गतौ।