पूर्वम्: ३।२।१७३
अनन्तरम्: ३।२।१७५
 
सूत्रम्
भियः क्रुक्लुकनौ॥ ३।२।१७४
काशिका-वृत्तिः
भियः क्रुक्लुकनौ ३।२।१७४

ञिभी भये, अस्माद् धातोः तच्छीलादिषु कर्तृषु क्रुक्लुकनौ प्रत्ययु भवाः। भीरुः, भीलुकः। क्रुकन्नपि वक्तव्यः। भीरुकः।
न्यासः
भियः क्रुक्लुकनौ। , ३।२।१७४

"क्रुकन्नपि वक्तव्यम्" इति। क्रुकन्नित्यपरः प्रत्ययो वाच्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- "आदृगमहन" ३।२।१७१ इत्यादेः सूत्राच्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, स चानुक्तसमुच्चयार्थः। तेन क्रुकन्नपि भविष्यतीति॥
बाल-मनोरमा
भियः क्रुक्लुकनौ। ९५६, ३।२।१७४

भियः। भीधातोः क्रु क्लुकन् एतौ स्तच्छीलादिष्वित्यर्थः। कित्त्वान्न गुणः।