पूर्वम्: ३।२।१७८
अनन्तरम्: ३।२।१८०
 
सूत्रम्
भुवः संज्ञाऽन्तरयोः॥ ३।२।१७९
काशिका-वृत्तिः
भुवः संज्ञाऽन्तरयोः ३।२।१७९

भवतेर् धातोः संज्ञायाम् अन्तरे च गम्यमाने क्विप् प्रत्ययो भव्ति। विभूर्नाम् कश्चित्। अन्तरे प्रतिभूः। धनिकाधमर्णयोरन्तरे यस् तिष्ठति स प्रतिभूरुच्यते।
बाल-मनोरमा
भुवः संज्ञान्तरयोः ९६१, ३।२।१७९

भुवः संज्ञान्तरयोः। "क्वि"बिति शेषः। "संज्ञान्तरयोरेवेति" नियमार्थं सूत्रम्। संज्ञायामुदाहरति-- मित्रभूर्नामेति। अन्तरे उदाहरति-- धनिकेत्यादि। यावद्द्रव्यभाविन्यः प्रतिभूशब्दस्तु सत्येव पुरुषे कदाचिन्न भवति, ऋणे प्रतिदत्ते सति प्रातिभाव्यस्य निवृत्तेः।

तत्त्व-बोधिनी
भुवः संज्ञान्तरयोः ७८७, ३।२।१७९

भुवः संज्ञा। धनिकेत्यादि। तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र नेति भावः। एतच्च दृशिग्रहमाऽनुवृत्त्या लभ्यते। नन्वेवं प्रतिभूशब्द संज्ञेति फलितं, तत्र "संज्ञाया"मित्येव सिद्धं किमन्तरग्रहणेन?। अत्राहुः- यावद्द्रव्यभाविन्यः संज्ञाः। प्रतिभूशब्दस्तु सत्येव तस्मिन् ऋणप्रदानेन निवर्तत इत्युभयोर्भेद इति। शं सुखं भावयतीति शम्भुरित्यर्थाभ्युपगमेनाह-- अन्तर्भावितेति। शं भवति= सुखस्वरूपो भवतीति शम्भुरित्यन्ये। सं भवत्यस्मादिति व्युत्पत्तिस्तु अपादाने डुप्रत्ययाऽभावाच्चिन्त्येति माधवः।