पूर्वम्: ३।२।१७७
अनन्तरम्: ३।२।१७९
 
सूत्रम्
अन्येभ्योऽपि दृश्यते॥ ३।२।१७८
काशिका-वृत्तिः
अन्येभ्यो ऽपि दृश्यते ३।२।१७८

अन्येभ्यो ऽपि धातुभ्यः ताच्छीलिकेषु क्विप् प्रत्ययो दृश्यते। युक्। छित्। भित्। दृशिग्रहणं विध्यन्तरौपसङ्ग्रहार्थम्। क्वचिद् दीर्घः, क्वचिद् द्विर्वचनम्, क्वचित् सम्प्रसारणम्। तथा च आह क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसंप्रसारणं च। वाक्। शब्दप्राट्। आयतस्तूः। कटप्रूः। जूः। श्रीः। जुग्रहनेन अत्र न अर्थः, भ्राजादि सूत्र एव गृहीतत्वात्। द्युतिगमिजुहोतीनां द्वे च। दिद्युत्। जगत्। जुहोतेर् दीर्घश्च। जुहूः। दृ̄ भ्ये इत्यस्य ह्रस्वश्च द्वे च। ददृत्। ध्यायतेः सम्प्रसारणं च। धीः।
न्यासः
अन्येभ्योऽपि दृश्यते। , ३।२।१७८

ननु चान्यभ्योऽपीत्येतावतैव सिद्धम्, तत्किमर्थं दृशिग्रहणमित्यादि? क्वचिदित्यादिना येषामुपसंग्रहार्थं दृशिग्रहणं तानि विध्यन्तराणि दर्शयति। यस्मात् विध्यन्तराणामुपसंग्रहार्थं दृशिग्रहणम्ेवञ्च कृत्वा वृत्तिकारः "क्विब्वचिपृच्छि"(वा।२८८) इत्यादिकं वाक्यं पठति। दृशिग्रहणोपात्तानि तान्येव विध्यन्तराणि दर्शयितुमित्यभिप्राय-। कथं पुनर्दृशिग्रहणेन विध्यन्तरोपसंग्रहः? दृशिग्रहणे हि सति "यथा दृश्यन्ते क्विबन्ता धातवस्तथैव तेऽनुगन्तव्याः" इत्येषोऽर्थो लभ्यते। त()स्मश्चार्थे लभ्यमाने द्विर्वचनादिविधयः संगृहीता भवन्ति। एवं हिते यथा दृश्यन्ते तथानुगता भवन्ति। यदि यथायोगं द्विर्वचनादयो विधीयन्ते, तदा क्विबन्तेषु क्वचिद्द्विर्वचनं दृश्यते, क्वचिदपि संप्रसारणमिति युक्तमुक्तम्-- "दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम्" इति। "वाक्" इति। वचेर्वच्यादिसूत्रेण ६।१।१५ प्राप्तस्य सम्प्रसारणस्याभावः क्रियते। "शब्दप्राट्" इति। पृच्छेरपि ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणस्य। व्रश्चादिसूत्रेण ८।२।३६ षत्वम्, पूर्ववज्जश्त्वं चत्र्वञ्च। आयतं स्तौतीति "आयतस्तूः"। "ष्टुञ् स्तुतौ" (धा।पा।१०४३)। कटं प्रवत इति "कटप्रूः"। "प्रुङ गतौ" (धा।पा।९५७)। "श्रीः" इति। "श्रिञ् सेवायाम्" (धा।पा।८९७)। "दिद्युत्" इति। "जगत्" इति। "गमः क्वौ"६।४।४० इत्यनुनासिकलोपः। "ददृत्" इति। "उरत्"७।४।६६ इत्यत्त्वम्, रपरत्वम्, हलादिशेषः ७।४।६०।"धीः"इति। "ध्यै चिन्तायाम्" (धा।पा।९०८) "हलः" ६।४।२ इति दीर्घः॥ "धनिकाधमर्णयोः" इत्यादि। धनिको यस्मै ऋणं धार्यते। अधमर्णो यो धारयति। तदन्तरे मध्ये यस्तिष्ठत्यात्मपक्षपतितः सम्प्रत्ययहेतुः सप्रतिभूशब्देनोच्यते, न सर्वः। तेन ग्रामयोरन्तरे यस्तिष्ठति तत्र प्रत्ययो न वति। एतच्च शब्दशक्तिस्वाभाव्याल्लभ्यते, "दृश्यते" ३।२।१७८ इत्यस्यानुवत्र्तेर्वा। अस्य ह्रनुवृत्तौ प्रतिभूरिति संज्ञेयम्, तत् किमन्तरग्रहणेन, संज्ञायामित्येव वक्तव्यम्? नैतदस्ति; द्रव्यताविघाता हि संज्ञाशब्दा भवन्ति, न चैवं प्रतिभूशब्दः। तथापि सत्यपि देवदत्ते कदाचिदसौ न प्रवत्र्तत एव॥
बाल-मनोरमा
अन्येभ्योऽपि दृश्यते ९६०, ३।२।१७८

अन्येभ्योऽपि। क्विबिति। शेषपूरणमिदम्। "भ्राजभासे"त्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः। विध्यन्तरेति। विधीयते इति विधिः = कार्यं। कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः। तदेव दर्शयति-- क्वचिद्दीर्घ इत्यादि। कक्विब्वचीत्यादिनेति। "क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चे"त्यौणादिकसूत्रेणेत्यर्थः। तृना बाधा मा भूदिति। वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः। वागिति। वचधातोः क्विप्, वचनादुपधाया दीर्घः, "वचिस्वपी"ति संप्रसारणाऽभावश्च। एवं कटप्रूरित्यत्र दीर्घः। प्राडिति। वचनान्न संप्रसारणम्। जुरुक्त इति। "भ्राजभासेत्यत्रे"ति शेषः। अतोऽत्र तद्ग्रहमं मा()सत्विति भावः। श्रीरिति। श्रिञः क्विपि दीर्घः। द्युतीति। "द्युतिगमिजुहोत्यादिनां द्वित्वं क्विप्चे"ति वाच्यमित्यर्थः। "पूर्वोऽभ्यासः" इत्यतर् षाष्ठद्विर्वचन एव पूर्वखण्डस्याऽभ्याससंज्ञावचनादाह-- दृशिग्रहणादिति। "अन्येब्योऽपि दृश्यते" इत्यत्रेत्यर्थः। ततश्चाऽभ्यासकार्यं हालदिशेषादीति भावः। दिद्युदिति। "द्युतिस्वाप्यो"रिति संप्रसारणम्। जगदिति। गमेः क्विप् "गमः क्वौ" इत#इ मलोपे तुक्। जुहोतेर्दीर्घश्चेति। वार्तिकमिदम्। चात्क्विब्द्वित्वे। ह्यस्वश्चेति। वार्तिकमिदम्। ददृदिति। ह्यस्वे कृते तुक्। ध्यायते। वार्तिकमिदम्। चात्क्विप्। धीरिति। ध्यैधातोः क्वनिपि संप्रासरणे पूर्वरूपे "हलः" इति दीर्घ इति भावः। अत्र "ध्यायतेः संप्रसारमं चे"त्युणादिषु पठितत्वादिदं वार्तिकं माऽस्त्वित्याहुः। वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौरनुक्त्यशङ्का।