पूर्वम्: ३।२।२१
अनन्तरम्: ३।२।२३
 
सूत्रम्
कर्मणि भृतौ॥ ३।२।२२
काशिका-वृत्तिः
कर्मणि भृतौ ३।२।२२

कर्मणि इति स्वरूपग्रहनम्। करमशब्दे उपपदे कर्मवाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायाम्। भृतिः वेतनं, कर्मनिर्वेशः। कर्म करोति इति कर्मकरः भृतकः इत्यर्थः। भृतौ इति किम्? करकारः।
न्यासः
कर्मणि भृतौ। , ३।२।२२

"कर्मणीति स्वरूपग्रहणम्" इति। कुत एतत्? कर्मग्रहणसमाथ्र्यात्। यदि पारिभाषिकस्य कर्मणो ग्रहणमिह स्यात् कर्मग्रहणमनर्थकं स्यात्; कर्माधिकारात्। करोतेश्च सकर्मंकत्वात् तेनैव सम्बद्धो भविष्यति। तथा च प्रागुक्तम्-- कर्मणि सुपीति द्वयमप्यनुवत्र्तते, तत्र सकर्मकेषु कर्मणीत्येतदुपतिष्ठते, अन्यत्र सुपीति। तस्मात् स्वरूपग्रहणमेवैतत्। "कर्मनिर्देशः"इति। कर्म व्यापारः, तस्य निर्देशः = मूल्यम्॥
तत्त्व-बोधिनी
कर्मणि भृतौ ६२६, ३।२।२२

कर्मणि भृतौ। भृतिर्वेतनम्। कर्मानुवृत्तौ पुनः कर्मग्रहणात्स्वरूपपरतेत्याह--कर्मशब्द इति।