पूर्वम्: ३।२।२२
अनन्तरम्: ३।२।२४
 
सूत्रम्
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु॥ ३।२।२३
काशिका-वृत्तिः
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ३।२।२३

शब्दादिषु उपपदेषु करोतेः टप्रत्ययो न भवति। हेत्वादिषु प्राप्तः प्रतिषिध्यते। शब्दकारः। श्लोककारः। कलहकारः। गाथाकारः। वैरकारः। चाटुकारः। चटुकारः। सूत्रकारः। मन्त्रकारः। पदकारः।
न्यासः
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु। , ३।२।२३

"हेत्वादिषु टः प्राप्तः" इति। "कृञो हेतु" ३।२।२० इत्यादिना॥
बाल-मनोरमा
न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ७५०, ३।२।२३

न शब्दश्लोक। शब्द, श्लोक, कलह, गाथा, वैर, चाटु, सूत्र, मन्त्र, पद- एषां नवानां द्वन्द्वः। हेत्वादिष्विति। "कृञो हेतुताच्छील्यानुलोम्येषु" इति प्राप्तः टप्रत्ययोऽनेन प्रतिषिध्यते इत्यर्थः।