पूर्वम्: ३।२।२३
अनन्तरम्: ३।२।२५
 
सूत्रम्
स्तम्बशकृतोरिन्॥ ३।२।२४
काशिका-वृत्तिः
स्तम्बशकृतोरिन् ३।२।२४

स्तम्ब शकृतित्येतयोः कर्मणोरुपपदयोः इन्प्रत्ययो भवति। व्रीहिवत्सयोरिति वक्तव्यम्। स्तम्बकरिर्व्रीहिः। शकृत्करिर्वत्सः। व्रीहिवत्सयोः इति किम्? स्तम्बकारः। शकृत्करः।
न्यासः
स्तम्बशकृतोरिन्। , ३।२।२४

"व्रीहिवत्सयोरिति वक्तव्यम्" इति। कर्त्तृविशेषमं व्रीहिवत्सग्रहणम्। अनेन सूत्रेण य इन् विधीयते स व्रीहिवत्सयोः कत्र्रोर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इहापि विभाषेत्यनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन व्रीहिवत्सयोः कत्र्रोरेव भविष्यति, नान्यत्र। नित्यत्वादुत्तरपदादाद्युदात्तत्वम्॥
बाल-मनोरमा
स्तम्बशकृतोरिन् ७५१, ३।२।२४

स्तम्बशकृतोरिन्। स्तम्बे शकृति च कर्मण्युपपदे कृञ इन् स्यात्। नकार इत्। व्रीहिवत्सयोरिति। व्रीहौ वत्से च कर्तरीत्यर्थः। स्तम्बशकृतोर्यथासङ्ख्यमन्वयः। स्तम्बकरिव्र्रीहिरिति।स्तम्बं तृणनिचयं करोतीति विग्रहः।

तत्त्व-बोधिनी
स्तम्बशकृतोरिन् ६२७, ३।२।२४

* व्रीहिवत्सयोरिति वक्तव्यम्। स्तम्बकरिरित्यादि। इनो नित्त्वात् कृदुतत्रपदप्रकृतिस्वरेणोत्तरपदमाद्युदात्तम्।