पूर्वम्: ३।२।२५
अनन्तरम्: ३।२।२७
 
सूत्रम्
फलेग्रहिरात्मम्भरिश्च॥ ३।२।२६
काशिका-वृत्तिः
फलेग्रहिरात्मम्भरिश् च ३।२।२६

फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते। फलशब्दस्य उपपदस्य एकारान्तत्वम् इन्प्रत्ययश्च ग्रहेर् निपात्यते। फलानि गृह्णाति इति फलेग्रहिर् वृक्षः। आत्मशब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते। आत्मानं बिभर्ति आत्मम्भरिः। अनुक्तसमुच्चयार्थश्चकारः। कुक्षिम्भरिः। उदरम्भरिः।
न्यासः
फलेग्रहिरात्मम्भरिश्च। , ३।२।२६

बाल-मनोरमा
फलेग्रहिरात्मम्भरिश्च ७५३, ३।२।२६

फलेघिः। ग्रहेरिन्निति। नतु "गृहू ग्रहणे" इति ऋदुपधादित्यर्थः। मुमागम इति। आत्मन्शब्दस्य नलोपे कृते अकारादुपरि मुमित्यर्थः। चकारोऽनुक्तसमुच्चयार्थ इति मत्वा आह-- चात्कुक्षम्भरिरिति। भाष्ये तु "भृञः कुक्ष्यात्मनोर्मुम् चेति वक्तव्य"मिति स्थितम्। "स्यादवन्ध्यः फलेग्रहिः" इति वृक्षपर्याये अमरः। "उभावात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके" इति विशेष्यनिघ्नवर्गे। उदरम्भरिशब्दं समर्थयितुमाह-- चान्द्रास्त्विति।

तत्त्व-बोधिनी
फलेग्रहिरात्मम्भरिश्च ६२८, ३।२।२६

कुक्षिम्भरिरिति। एवं च "गिरिस्तु कनकाचलः, कति न सन्ति चाश्मव्रजाः, किटिस्तु धरणीधरः,कति न सन्ति भूदारकाः। मरुत्तु मलयानिलः, कति न सन्ति झञ्झानिलाः,प्रभुस्तु विबुधाश्रयः, कति न सन्ति कुक्षिम्भराः"इति केषांचित्प्रयोगः प्रामादिक एव।