पूर्वम्: ३।२।२६
अनन्तरम्: ३।२।२८
 
सूत्रम्
छन्दसि वनसनरक्षिमथाम्॥ ३।२।२७
काशिका-वृत्तिः
छन्दसि वनसनरक्षिमथाम् ३।२।२७

वन षण सम्भक्तौ, रक्ष पालने, मन्थ विलोडने, एतेभ्यः कर्मण्युपपदे छन्दसि विषये इन्प्रत्ययो भवति। ब्रह्मवनिं त्वा क्षत्रवनिं सुप्रजावनिं रायस्पोषवनिं पर्यूहामि। गोसनिं वाचमुदेयम्। यौ पथिरक्षी श्वानौ। हविर्मथीनामभ्या ३ विवासताम्।
न्यासः
छन्दसि वनसनरक्षिमथाम्। , ३।२।२७

"ब्राहृवनिं त्वा क्षत्रवनिम्िति। ब्राहृ वनति, क्षत्रं वनतीत्यर्थविवक्षायामिन्प्रत्ययः। तदन्ताद्द्वितीया, तस्याः "सुपां सुलुक्" ७।१।३९ इति लुक्। युष्मच्छब्दाद्द्वितीयादिभक्तेः "त्वामौ द्वितीयायाः" ८।१।२३ इति त्वादेशः। "गोसनिम्" इति। गां सनतीत्यर्थ इन्प्रत्ययः। तदन्तादमि परे पूर्वरूपत्वम्। पन्थानं रक्षत इति "पथिरक्षी"। द्विवचनमेतत्। पूर्वसवर्णदीर्घत्वम्। "हविर्मथीनाम्" इति। हविर्मथन्तीति विगृह्र प्रत्ययः। तदन्तात् षष्ठ()आ बहुवचनम्॥