पूर्वम्: ३।२।२८
अनन्तरम्: ३।२।३०
 
सूत्रम्
नासिकास्तनयोर्ध्माधेटोः॥ ३।२।२९
काशिका-वृत्तिः
नासिकास्तनयोर् ध्माधेटोः ३।२।२९

नासिकास्तनयोः कर्मणोरुपपदयोः ध्माधेटोर्धात्वोः खश् प्रत्ययो भवति। यथासङ्ख्यमत्र नेष्यते। स्तने धेटः। सत्नन्धयः। नासिकायां तु ध्मश्च धेटश्च। नासिकन्धमः, नासिकन्धयः। तच् च एतन् नासिकस्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्य अपूर्वनिपातनाल् लभ्यते। धेटः टित्वात् स्त्रियां ङीप् प्रत्ययो भवति। स्तनन्धयी।
न्यासः
नासिकास्तनयोर्ध्माधेटोः। , ३।२।२९

"स्तने धेटः" इत्यादिना यथायोगमुपपदसम्बन्धं दर्शयन्नुदाहरणानि दर्शयति। "नासिकन्धमः" इति। पाघ्रादिसूत्रेण ७।३।७८ धमादेशः। "तच्चैतत्" इत्यादि। यथासंख्याभावे हेतुमाह। स्तनशब्दो हि नासिकापेक्षयल्पाच्तरः, तस्य पूर्वनिपाते कत्र्तव्ये योऽयमपूर्वनिपातः कृतः सलक्षमव्यभिचारं सूचयति। यथेह पूर्वनिपातशास्त्रं व्यभिचरति, स्वविषये न प्रवर्तते, तथा यथासंख्यलक्षणमपीति। अतोऽस्माल्लक्षणव्यभिचारचिह्नाद्यथासंख्याभावो लभ्यते॥
बाल-मनोरमा
नासिकास्तनयोर्ध्माधेटोः ७५७, ३।२।२९

नासिका। नसिका, स्तन अनयोद्र्वन्द्वात्सप्तमी। ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी। "ख"शिति शेषः। यथासङ्ख्यमन्वये प्राप्ते आह-- अत्र वार्तिकमिति। धेटष्टित्त्वादिति। यद्यपि "टिड्ढे"त्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम्, तथापि टित्त्वस्यावयवे अचरितार्थत्वान्ङीबिति हरदत्तः। अत्र यद्वक्तव्यं तत् "प्राघ्राध्माधेट्()दृशः शः" इत्यत्रोक्तम्। नासिकन्धम इति। ह्यस्वे कृते मुम्। नासिकाया ध्मश्चेति। चकाराद्धेटश्चेति लभ्यते। तस्योदाहरति-- नासिकन्धय इति।

तत्त्व-बोधिनी
नासिकास्तनयोर्ध्माधेटोः ६३२, ३।२।२९

* स्तने धेटोनासिकायां ध्मश्चेति वाच्यम्। धेटष्टित्त्वादिति। अवयवे अचरितार्थत्वादिति भावः। खश्प्रत्यन्तादेव धेटो ङीबिष्टो नान्यत इति वद्र्धमानक्षीरस्वामिहरदत्तायः। तेन "पाघ्राध्माधे" डिति शप्रत्यये "आतोऽनुपसर्गे कः" इति कप्रत्यये च टाबेव। धया--कन्या। गां धयतीति गोधा। अत्र च संप्रदाय एव शरणम्। नासिकंधम इति। "पाघ्राध्मे"ति धमादेशः।