पूर्वम्: ३।२।२७
अनन्तरम्: ३।२।२९
 
सूत्रम्
एजेः खश्॥ ३।२।२८
काशिका-वृत्तिः
एजेः खश् ३।२।२८

एजृ कम्पने इत्यस्मात् ण्यन्तात् कर्मण्युपपदे खश् प्रत्ययो भवति। खकारो मुमथः। शकारः सार्वधातुकसंज्ञार्थः। अङ्गमेजयति अङ्गमेजयः। जनमेजयः। खश्प्रयये वात्शुनीतिलशर्धेष्वजधेट्तुदजहातीनाम् उपसङ्ख्यानम्। वातमजा मृगाः। शुनिन्धयः। तिलन्तुदः। शर्धञ्जहा माषाः।
लघु-सिद्धान्त-कौमुदी
एजेः खश् ७९९, ३।२।२८

ण्यन्तादेजेः खश् स्यात्॥
न्यासः
एजेः खश्। , ३।२।२८

ण्यन्तात्" इति। एतेन प्रकृत्यन्तरस्यायमेजेरिका निर्देश इत्याशङ्कां निरस्यति। कुतः पुनण्र्यन्तमवसितम्? खशः शित्करणात्। प्रकृत्यन्तरस्य ग्रहणे शित्करणमनर्थकं स्यात्। तद्धि सार्वधातुके सति तदाश्रयस्य शपो विधिर्यथा स्यादित्येवमर्थं क्रियते। न चैजेः प्रकृत्यन्तरस्य सत्यसति वा शपि कश्चिद्विशेषोऽस्ति, ण्यग्रहणे तु सति शित्करणमर्थवद्भवति। असति तस्मिन् णिलोपः स्यात्, त()स्मस्तु सति सार्वधातुनिबन्धने शपि णिलोपो न भवति। आर्धधातुकत्वं णिलोप इत्येके, एतच्चायुक्तम्; उत्तरार्थं हि शित्करणं स्यात्। असति हि तस्मिन्नुत्तरसूत्रे धेट आत्त्वं स्यात्, ध्मश्च धमादेशो न स्यात्। तथा च स्तनन्धयः, नासिकन्धम इति न सिध्येत्। तस्माद्व्याख्यानादेव ण्यन्तत्वमवसेयम्। "खकारोऽयं मुमर्थः"इति। "खित्यनव्ययस्य" ६।३।६५ इत्यधिकृत्य "अरुर्द्विषदजन्तस्य" ६।३।६६ इति मुमागमो यथा स्यात्। "शकारः सार्वधातुकसंज्ञार्थः" इति। "तिङशित् सार्वधातुकम्" ३।४।११३ इति सार्वधातुकसंज्ञा यथा स्यात्। "अङ्गमेजयः" इति। शप्, गुणायादेशौ। "खश्प्रकरणे" इत्यादि। वातादिषूपपदेषु "अज गतिक्षेपणयोः" (धा।पा।२३०), "धेट् पाने" (धा।पा।९०२), "तुद व्यथने" (धा।पा।१२८१),"ओहाक् त्यागे" (धा।पा।१०९०)--इत्येभ्यो धातुभ्यः खश्प्रकरण उपसंख्यानं कत्र्तव्यम्। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम् -- "नाडीमुष्ट()ओश्च" ३।२।२० इत्यत्र चकारः, स चानुक्तसमुच्चयार्थः। तेन वातादिषूपपदेष्वजादिभ्यो धातुभ्यः खश् भविष्यति। "शुनिन्धयः" इति। "खित्यनव्ययस्य" ६।३।६५ इति ह्यस्वत्वम्। "शद्र्धञ्जहाः" इति। जुहोत्यादिभ्यः शपः श्लुः, "श्लौ"६।१।१० इति द्विर्वचनम्, "श्नाब्यसत्योरातः" ६।४।११२ इत्याकारलोपः॥
बाल-मनोरमा
एजेः खश् ७५४, ३।२।२८

#एजेः खश्। एजेरिति ण्यन्तस्य एजृधातोग्र्रहणम्, न त्विका निर्देशः, व्याख्यानादिति भावः। खकारशकारावितौ। कर्मण्युपपदे इत्यपि ज्ञेयम्।

तत्त्व-बोधिनी
एजेः खश् ६२९, ३।२।२८

एजेः खश्। एजृ कम्पने। एजेरिति ण्यन्तस्य निर्देशो, न तु शुद्धस्येका निर्देशः, खशः शित्करणाल्लिङ्गात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चशुद्धस्य [शब्दस्य] शपि सत्यसति वा विशेषोऽस्ति। न चोत्तरार्थ शित्त्वमिति वाच्यम्, इहाऽर्थवत्त्वे संभवति केवलोत्तरार्थत्वस्याऽन्याय्यत्वात्। तदेतदाह--- ण्यन्तादेजेरिति।