पूर्वम्: ३।२।३०
अनन्तरम्: ३।२।३२
 
सूत्रम्
उदि कूले रुजिवहोः॥ ३।२।३१
काशिका-वृत्तिः
उदि कूले रुजिवहोः ३।२।३१

रुजो भङ्गे, वह प्रापणे इत्येताभ्याम् उत्पूर्वाभ्यां कूले कर्मणि उपपदे खश् प्रत्ययो भवति। कूलम् उद्रुजति इति कूलमुद्रुजो रथः। कूलमुद्वहः।
न्यासः
उदि कूले रुजिवहोः , ३।२।३१

"उदि" इति। सप्तमीयम्- उदि सति। तत्रोत्कूलशब्दयोर्विषयव्यवस्था द्रष्टव्या। "ते प्राग्धातोः" १।४।७९ इति वचनाद्धातोरनन्तरमुत्शब्दः, तस्मात् पूर्वः कूलशब्द इति। अथ वा-- "{ उदिति-- मुद्रितः पाठः} उदीति परसप्तमी-- उदि परतः कूलशब्दस्योपपदत्व इति। अथोच्छब्दस्याप्युपपदसंज्ञा कस्मान्न भवति, प्रत्येकं सप्तम्युच्चारणात्? एषा ह्राचार्यस्य शैली यत्र प्रत्येकमुपपदत्वमस्ति तत्र समुदायात् सप्तमीमुच्चारयति, यथा-- "नाडीमुष्ट्योः ३।२।३० इति। इह तु विपर्ययः कृत इति न भवत्युपपदत्वम्। अपि च रुजिवहोः सकर्मकत्वात् कर्मणीतीहोपतिष्ठते। न चोच्छब्दसय् कर्मत्वं सम्भवति असत्त्ववाचित्वात्। कुतस्तस्योपपदत्वम्। "कूलमुद्रुजः" इति। तुदादित्वाच्छः" "कूलमुद्वहः" इति। शप्॥
बाल-मनोरमा
उदि कूले रुजिवहोः ७५९, ३।२।३१

उदि कूले। उदीति दिग्योगपञ्चम्यर्थे सप्तमी। रुजिवहोरिति पञ्चम्यर्थे षष्ठी। "रुजो भङ्गे" तुदादिः। अत्र रुजेः सकर्मकत्वात्कर्मण्युपपदे इति लब्धं, तेन कूलं विशेष्यते, न तू च्छब्दः, तस्याऽसत्त्ववाचित्वात्। तदाह-- उत्पूर्वाभ्यामित्यादि। कूलमुद्रुज इति। सुपो लुकि मुमिति भावः।

तत्त्व-बोधिनी
उदि कूले रुजिवहोः ६३४, ३।२।३१

उदि कूले। ननु कूलस्येवोच्छब्दस्यापि सप्तम्यन्त्वादुपपदत्वं सयात्ततश्च रुजिवहिभ्यां सह यथासङ्ख्यं स्यादिति चेत्। अत्राहुः- नाडीमुष्ट()ओरितिवल्लाघवादुत्कूलयोरिति वक्तव्ये उदीति व्यस्तोच्चारणान्नोपपदम्। एवं चोदीति पञ्चम्याः स्थानेसप्तमी, रुजिवहोरिति तु पञ्चम्याःस्ताने षष्ठीति। एतच्च यथासङ्ख्यसूत्रे कैयटे स्पष्टम्। किंच रुजेः सकर्मकत्वात्कर्मणीत्युपतिष्ठते, तेन कूलं विशेष्यते, नोच्चब्दः, असत्त्ववाचित्वनाऽसंभवात्। तदेतदाह-- उत्पूर्वाभ्यामित्यादिना।