पूर्वम्: ३।२।३१
अनन्तरम्: ३।२।३३
 
सूत्रम्
वहाभ्रे लिहः॥ ३।२।३२
काशिका-वृत्तिः
वहाभ्रे लिहः ३।२।३२

वह अभ्र इत्येतयोः करम्णोरुपपदयोः लिहेर् धातोः खश् प्रत्ययो भवति। वहं लेढि इति वह्ंलिहो गौः। अभ्रंलिहो वायुः।
न्यासः
वहाभ्रे लिहः। , ३।२।३२

"वहंलिहः" इति। "लिह आस्वादने" (धा।पा।१०१६) अदादित्वाच्छपो लुक्, "सार्वधातुकमपित्" १।२।४ इति ङित्वाद्गुणाभावः॥
बाल-मनोरमा
वहाभ्रे लिहः ७६०, ३।२।३२

वहाभ्रे लिहः। वहे अभ्रे च कर्मण्युपपदे लिहः खशित्यर्थः। वहशब्दस्य विवरणम्-- स्कन्ध इति। शपो लुगिति। खशः शित्त्वेन सार्वधातुकत्वात्कृतस्य शपो लुगित्यर्थः।