पूर्वम्: ३।२।३३
अनन्तरम्: ३।२।३५
 
सूत्रम्
मितनखे च॥ ३।२।३४
काशिका-वृत्तिः
मितनखे च ३।२।३४

मित नख इत्येतयोः कर्मणोरुपपदयोः पचेः खश् प्रत्ययो भवति। अपरिमाणार्थः आरम्भः। मितं पचति मितम्पचा ब्राह्मणी। नखंपचा यवागूः।
न्यासः
मितनखे च। , ३।२।३४

"अपरिमाणार्थ आरम्भः" इति। परिमाणे पूर्वेणैव सिद्धत्वात्। मितनखशब्दयोरपरिमाणवचनत्वात्। सर्वदैव हि मितशब्दः परिमेयद्रव्यवचनः , नखशब्दो हि प्राण्यङ्गवचनः॥
बाल-मनोरमा
मितनखे च ७६२, ३।२।३४

मितनखे च। मिते नखे च कर्मण्युपपदे पचेः खशित्यर्थः। नखानां विक्लित्त्यसंभवादाह-- पचिरत्रेति।