पूर्वम्: ३।२।३४
अनन्तरम्: ३।२।३६
 
सूत्रम्
विध्वरुषोः तुदः॥ ३।२।३५
काशिका-वृत्तिः
विध्वरुषोस् तुदः ३।२।३५

विधु अरुसित्येतयोः कर्मणोरुपपदयोः तुदेर् धातोः खश् प्रत्ययो भवति। विधुन्तुदः राहुः। अरुनतुदः।
न्यासः
विध्वरूषोस्तुदः। , ३।२।३५

"अरुन्तुदः" इति। अरुश्शब्दस्य "अरुर्द्विषदजन्तस्य" ६।३।६६ इत्युकारात् परो मुमागमः, संयोगान्तलोपः ८।२।२३, "मोऽनुस्वारः" ८।३।२३, "अनुस्वारस्य ययि परसवर्णः"८।४।५७ इतिपरसवर्णः॥
बाल-मनोरमा
वध्वरुषोस्तुदः ७६३, ३।२।३५

विध्वरुषोस्तुदः। विधु, अरुस् अनयोः कर्मणोरुपपदयोस्तुदः खशित्यर्थः। विधुंतुद इति। विधुश्चन्द्रः, तं तुदतीति विग्रहः। राहुरित्यर्थः। अरुस्शब्दे उकारादुपरि मुमि कृते सकारस्य संयोगान्तलोप इत्यर्थः। अरुन्तुद इति। अरुर्मर्म, तत्तुदन्तीति विग्रहः।

तत्त्व-बोधिनी
विध्वरुषोस्तुदः ६३५, ३।२।३५

विधुन्तुद इति। "अरुर्द्विषदजन्तस्य" इत्युकारात्परो मुम्। "तमस्तुराहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः"इत्यमरः। अरुन्तुद इति। "अरुन्तुदं तु मर्मस्पृक्" इत्यमरः। "व्रणोऽस्त्रियामीर्ममरुः" इति च।