पूर्वम्: ३।२।४४
अनन्तरम्: ३।२।४६
 
सूत्रम्
आशिते भुवः करणभावयोः॥ ३।२।४५
काशिका-वृत्तिः
आशिते भुवः करणभावयोः ३।२।४५

अत्र सुपि इत्युपतिष्ठते। आशितशब्दे सुबन्ते उपपदे भवतेर् धातोः करणे भावे चार्थे खच् प्रत्ययो भवति। आशितो भवति अनेन आशितम्भव ओदनः। भावे आशितस्य भवनम् आशितम्भवं वर्तते।
न्यासः
आशिते भुवः करणभावयोः । , ३।२।४५

अत्र सुपीत्युपतिष्ठते, न कर्मणीति; भवतेरकर्मकत्वात्। "आशितशब्दे सुबन्ते" इत्यादि। अथ विपर्ययः कस्मान्न वति, करणभावयोरुपपदयोराशिते प्रत्ययार्थ इति? असम्भवात्। आशित इत्यश्नातेः कत्र्तोच्यते, तस्य भवतिना सम्बन्धो नोपपद्यते। न हि योऽश्नातेः कत्र्ता स भवतेः प्रत्ययार्थो भवतुमुत्सहते। तस्मादाशितशब्दस्योपपदत्वम्, इतरयोस्तु प्रत्ययार्थत्वम्। एवञ्च घञ्ल्युटोरपवादो भवति। वाऽसरूपविधिना ल्युडपि भवत्येव-- आशितभवन ओदन इति। घञस्तु स्वरूपत्वाद्बाधख एव॥।
बाल-मनोरमा
आशिते भुवः करणभावयोः ७७३, ३।२।४५

#आशिते। करणे उदाहरति-- आशितो भवत्यनेनेति। भावे उदाहरति-- आशितस्य भवनमिति।

तत्त्व-बोधिनी
आशिते भुवः करणभावयोः ६४२, ३।२।४५

आशितंभव इति। यावता ओदनेन अतिथ्यादिर्भोजितो बवति स एवमुच्यते। इह वासरूपविधिना ल्युडपि। [आशित भवनः।भावे]-आशितभवनम्। घञ् तु बाध्यत एव, सरूपत्वादित्याहुः। नचाऽत्र क्तल्युट्तुमुन्()खलर्थेषु वासरूपविधिर्नेति ल्युटो निषेधः शङ्क्यः। यत्र हि घञादेर्बाधकत्वेन क्तल्युडादयः प्रसक्तास्तत्र नित्यं बोधो न तु विकल्पेनेति तस्यार्थः। इह तु ल्युटोऽप्यपवादः खच्। अत्र वासरूपन्यायो निर्बाध एव। एतच्च आशितभवनमित्युदाहरतो जयादित्यस्यापि संमतमेवेति दिक्।