पूर्वम्: ३।२।४३
अनन्तरम्: ३।२।४५
 
सूत्रम्
क्षेमप्रियमद्रेऽण् च॥ ३।२।४४
काशिका-वृत्तिः
क्षेमप्रियमद्रे ऽण् च ३।२।४४

क्षेम प्रिय मद्र इत्येतेषु कर्मसु उपपदेषु करोतेः अण् प्रत्ययो भवति, चकारात् खच् च। क्षेमकारः, क्षेमङ्करः। प्रियकारः, प्रियङ्करः। मद्रकारः, मद्रङ्करः। वा इति वक्तव्ये पुनरण्ग्रहनं हेत्वादिषु टप्रतिषेधार्थम्
न्यासः
क्षेमप्रियमद्रेऽण् च। , ३।२।४४

अथ "क्षेमप्रियमद्रे वा" इत्येवं कस्मान्नोक्तम्? किमण्ग्रहणेन? खचि विकल्प्यते, "कर्मण्यण्" (३।२।१) इत्यनेनैवाण् भविष्यीत्यत आह-- "वेति वक्तव्ये" इत्यादि। "क्षेमप्रियमद्रे वा" इत्युच्यमाने पक्षे वाग्रहणाद्यथाप्राप्तमपीष्यते। ततो हेत्वादिषु विवक्षितेषु "कृञो हेतुताच्छील्य" ३।२।२० इत्यादिना टः स्यात्; अतस्तद्वाधनार्थम्। तेन हेत्वादिविवक्षायां टप्रत्ययं बाधित्वाऽण् भवति॥
बाल-मनोरमा
क्षेमप्रियमद्रेऽण् च ७७२, ३।२।४४

क्षेमप्रिय। ननु "क्षेमप्रियमद्रवे"ति खचो विकल्पविधौ खजभावे "कर्मण्य"णित्यस्य सिद्धत्वादण्ग्रहणं व्यर्थमित्यत आह-- वेति वाच्ये इति। हेत्वादिष्विति। "कृञो हेतुताच्छील्यानुलोम्येषु इति विहित इत्यर्थः। कथं तर्हीति। "कृञो हेतु" इत्यस्य अणा बाधात् क्षेमकार इति भवितव्यम्, खचि तु मुम् स्यादित्याक्षेपः। समाधत्ते-- कर्मणः शेषत्वेति। तथा च कर्मोपपदाऽभावादणभावे चाऽजिति भावः। क्षेमङ्करीति तु गौरादित्वान्ङीषित्याहुः।