पूर्वम्: ३।२।४७
अनन्तरम्: ३।२।४९
 
सूत्रम्
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥ ३।२।४८
काशिका-वृत्तिः
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ३।२।४८

संज्ञायाम् इति न अनुवर्तते। अन्त अत्यन्त अध्वन् दुर पार सर्व अनन्त इत्येतेषु कर्मसु उपपदेषु गमेः डप्रत्ययो भवति। अन्तगः अत्यन्तगः। अध्वगः। दूरगः। पारगः। सर्वगः। अनन्तगः। अनन्तगः। डकरः टिलोपार्थः, डित्यभस्य अप्यनुबन्धकरणसामर्थ्यातिति। डप्रकरणे सर्वत्रपन्नयोरुपसङ्ख्यानम्। सर्वत्रगः। पन्नगः। उरसो लोपश्च। उरसा गच्छति इति उरगः। सुदुरोरधिकरणे। सुखेन गच्छत्यस्मिनिति सुगः। दुर्गः। निरो देशे। निर्गो देशः। अप्र आह डप्रकरणे ऽन्येष्वपि दृश्यते इति। स्त्र्यगारगः। ग्रामगः। गुरुतल्पगः।
न्यासः
अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः। , ३।२।४८

"डकारष्टिलोपार्थः"इति। डिति "टेः" ६।४।१५५ इति टिलोपो यथा स्यात्। कथं पुनः सत्यपि डकारे टिलोपो लभ्यते, यावता भसंज्ञकस्य हि टिलोप उच्यते, न चेह भसंज्ञाऽस्तीत्याह-- "डित्यभस्यापि" इत्यादि। यदि सत्यपि डिति टिलोपो मा भूत्, तदा तस्य वैयथ्र्यं स्यादिति भावः। ननु चश्रवणार्थ भविष्यति, तत्कुतो वैयथ्र्यं स्यात्? एवं मन्यते-- "प्रावृट्()शरत्कालदिवाञ्जे" ६।३।१४ इति कृतटिलोपस्य जनेर्डप्रत्ययान्तस्यायं निर्देशं करोति, ततोऽवसीयते डकारस्याश्रवणार्थतेति। "सर्वत्र" इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- "गमश्च" ३।२।४७ इत्यतश्चकारोऽनुवत्र्तते। तस्यानुक्तसमुच्चयार्थत्वात् सर्वत्रेत्यादानुपपदे डो भविष्यतीति। सर्वत्रशब्दश्चात्र सुपीत्यनेन सम्बध्यते, न तु कर्मणीत्यनेन; तस्याधिकरणशक्तिप्रधानत्वात् कर्मत्वानुपपत्तेः। पन्नशब्दः क्रियाविशेषणत्वात् कर्मणीत्यनेन सम्बध्यते। प्रतिपादितं हि "करणे च स्तोकाल्प" २।३।३३ इत्यादिसूत्रे क्रियाविशेषणस्य कर्मत्वम्। "उरसो लोपश्च" इति। "अलोऽन्त्यस्य" १।१।५१ इति सकारस्य। "सुदुरोरधिकरण" इति। ल्युडपवादो डो विधीयते। वाऽसरूपविधिना सोऽपि भवति-- सुगमनम्, दुर्गमनमिति। अधिकरण इति किम्? कर्मणि मा भूत्। "ईषद्()दुःसुषु" ३।३।१२६ इत्यादिना खलेव भवति-- सुगमः, दुर्गम इति। "निरो देशे" इति। निर्()शब्द उपपदे गमेर्डो भवति देशेऽधिकरणे। निर्गम्यतेऽस्मिन् देशे निर्गो देशः। देशादन्यत्र ल्युडेव-- निर्गमनमिति॥
बाल-मनोरमा
अन्ताऽत्यन्ताऽध्वदूरपारसर्वानन्तेषु डः ७७६, ३।२।४८

अन्तात्यन्त। इत्यादि व्यक्तम्। सर्वत्रपन्नयोरिति। सर्वत्रशब्दे, पन्नशब्दे चोपपदे गमेर्डस्योपसङ्ख्यानमित्यर्थः उरस इति। उरसि उपपदे गमेर्डः, उरः शब्दान्त्यस्य लोपश्चेति वक्तव्यमित्यर्थः। सुदुरोरिति। सु, दुर्-- अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्ये इत्यर्थः। अन्यत्रापि दृश्यत इति। अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः। अनेनैव सिद्दे "सर्वत्रपन्नयो"रित्यादि प्रपञ्चार्थमेव। एवं च "सप्तम्यां जनेर्डः" इत्यत्रापि "अन्येष्वपि दृश्यते" इति प्रपञ्चार्थमेव। डे चेति। "विहायसो विहे"त्युक्तस्य खज्विषयत्वादिदं वचनम्। विहग इति। खचि तु मुमि विहङ्गम इति रूपम्।

तत्त्व-बोधिनी
अन्ताऽत्यन्ताऽध्वदूरपारसर्वानन्तेषु डः ६४५, ३।२।४८

* सुदुरोरधिकरणे। कर्मणि तु "ईषद्दुःसुषु" इति खलेव। सुखेन गम्यत इति सुगमः पन्थाः। दुर्गमः।

* दारावाहनोऽणन्तस्य च टः संज्ञायाम्। दाराविति शब्दापेक्षया पुंलिङ्गता। तदाह-- दारुशब्दे इति। "कष्ठं दार्विन्धनं त्वेधः" इत्यमरः। टविधानार्थमिदम्। अण् तु "कर्मण्य"णित्येव सिद्धः। "अलोऽन्त्यस्ये"त्येव सिद्धेरन्तग्रहणं स्पष्टार्थम्। अन्यथा हि टप्रत्ययः संभाव्येत। दार्वाहन्तीति दार्वाघाटः। "गोधाकालकादार्वाघाटस्ते वनस्पतीनाम्"