पूर्वम्: ३।३।१२५
अनन्तरम्: ३।३।१२७
 
सूत्रम्
ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्॥ ३।३।१२६
काशिका-वृत्तिः
ईषद्दुःसुषु कृच्छ्राकृच्च्रार्थेषु खल् ३।३।१२६

करणाधिकरणयोः इति निवृत्तम्। ईषत् दुस् सु इत्येतेषु उपपदेषु कृच्छ्राकृच्छ्रार्थेषु धतोः खल् प्रत्ययो भवति। कृच्छ्रं दुःखम्, तद् दुरो विशेषणम्। अकृच्छ्रं सुखम्, तदितरयोः विशेषनम्, सम्भवात्। ईषत्करो भवता कटः। दुष्करः। सुकरः। ईषद्भोजः। दुर्भोजः। सुभोजः। ईषदादिषु इति किम्? कृच्छ्रेण कार्यः कटः। कृच्छ्राकृच्छ्रार्थेषु इति किम्? ईषत्कार्यः। लकारः स्वरार्थः। खित्करणम् उत्तरक्र मुमर्थम्।
लघु-सिद्धान्त-कौमुदी
ईषद्दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ८७९, ३।३।१२६

करणाधिकरणयोरिति निवृत्तम्। एषु दुःखसुखार्थेषूपपदेषु खल् तयोरेवेति भावे कर्मणि च। कृच्छ्रे - दुष्करः कटो भवता। अकृच्छ्रे - ईषत्करः। सुकरः॥
न्यासः
ईषद्?दुःसुषु कृच्छ्रार्थेषु खल्। , ३।३।१२६

"तदितरयोः"इति। सुशब्देषच्छब्दयोः। कथं पुनः सामान्योक्तेनापि विशेषो लभ्यते? इत्याह-- सम्भवात्िति। यत्र यस्य सम्भवस्तत्र तस्य विशेषणं भवति। कृच्छ्रमेव दुःशब्दस्यार्थे वत्र्तते, नाकृच्छ्रम्। इतरयोस्त्वर्थेऽकृच्छ्रमेव वर्त्तैते न कृच्छ्रम्। तस्मात् कृच्छ्रं दुर एव विशेषणम्, अकृच्छ्र त्वितरयोरेव। "ईषात्करः कटो भवता" इति। अकृच्छ्रेणायत्नेन क्रियते भवता कट इत्यर्थः। "ईषत्कार्यः"इति। "ऋहलोण्र्यत्" ३।१।१२४ इति ण्यत्। ईषच्छब्दोऽत्र मनागित्यस्यार्थे वत्र्ततेत। "लकारः स्वरार्थः" इति। लिति प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। ननु च ह्यस्वादिकं खित्कार्यं "खित्यनव्ययस्य" ६।३।६५ इत्येवमादिशास्त्रेणानव्ययस्य विधीयते; ईषदादयश्चाव्ययसंसज्ञाः; तत्किमर्थं खलः, खित्करणमित्याह-- "खित्करणमुत्तरत्र मुमर्थम्" इति।उत्तरत्रानव्ययेऽप्युपपदे खल् विधास्यते, तत्र "अरूर्द्विषदजन्तस्य मुम्" ६।३।६६ इति मुम् यथा स्यादित्येवमर्थं खित्करणम्॥
तत्त्व-बोधिनी
ईषद्दुःसुषुकृच्छ्राऽकृच्छ्रार्थेषु खल् १५७९, ३।३।१२६

ईषद्दुःसुषु। इह सामान्योक्तावपि योग्यताबलाद्विशेषणस्य विषयविभागो लभ्यते। दुरिति कृच्छ्रार्थे,इतरौ त्वकृच्छ्रार्थे।तदेतद्दर्शयति--कृच्छ्रे दुष्कर इत्यादिना। भवतेति। "न लोके"ति षष्ठीनिषेधात्कर्तरि तृतीया। कच्छ्रेत्यादि किम्?। ईषत्कार्यम्। स्वल्पं कार्यमित्यर्थः। खलिति। लकारः स्वरार्थः, खित्करणं तूत्तरत्र मुमर्थम्। निमिमीति। "मीनातिमिनोतिदीङां ल्यपि च " "विभाषा लीयतेः इति प्राप्तं निषिध्यते। निमय इत्यादि। "एरच्। उपसर्गात्खल्घञोः। "लभेश्चे"त्यनेनैव सिद्धे नियमार्थमिदमित्याह--उपसर्गादेवति।