पूर्वम्: ३।२।५
अनन्तरम्: ३।२।७
 
सूत्रम्
प्रे दाज्ञः॥ ३।२।६
काशिका-वृत्तिः
प्रे दाज्ञः ३।२।६

सोपसर्गार्थ आरम्भः। ददातेः जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्रे इति किम्? गोसन्दायः।
न्यासः
प्रे दाज्ञः। , ३।२।६

"सोपसर्गार्थं आरम्भः" इति। अनुपसर्गात् "आतोऽनुपसर्गे कः" ३।२।३ इत्येवं सिद्धत्वात्। "ददातेः" इति। दारूपाणां धातूनामुपलक्षणमेतत्। अन्येषामपि दारूपाणां ग्रहणमिष्यमे; "गामादाग्रहणेष्वविशेषः" (व्या।प।१२४) इति वचनात्। "प्रेणोपसृष्टात्" इति। प्रेणोपसर्गेण सम्बद्धादित्यर्थः। सूत्रे "प्रे" इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या। "पथिप्रज्ञः" इति। पन्थानं प्रजानातीत्यर्थः॥
बाल-मनोरमा
प्रे दाज्ञः ७३६, ३।२।६

प्रे दाज्ञः। "प्रे" इति सप्तमी पञ्चम्यर्थे। दा, ज्ञा-- अनयोद्र्वन्द्वात्पञ्चम्येकवचम्। प्रोपसृष्टादिति। प्रेत्युपसर्गपूर्वकादित्यर्थः। सोपसर्गार्थ आरम्भः।

तत्त्व-बोधिनी
प्रे दाज्ञः ६१५, ३।२।६

प्रे दा। गामादाग्रहणेष्वविशेषादाह--दारूपादित। पथिप्रज्ञ इति। पन्थानं प्रकर्षेण जानातीत्यर्थः। प्रादन्यस्मिन्निति। प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसर्गान्तरे सति "आतोऽनुपसर्गे" इत्यनेनापि न भवतीति भावः।