पूर्वम्: ३।२।६
अनन्तरम्: ३।२।८
 
सूत्रम्
समि ख्यः॥ ३।२।७
काशिका-वृत्तिः
समि ख्यः ३।२।७

सोपसर्गार्थः आरम्भः। संपूर्वात् ख्या इत्येतस्माद् धातोः कर्मण्युपपदे कप्रत्ययो भवति। अणो ऽपवादः। गां संचष्टे गोसङ्ख्यः।
न्यासः
समि ख्यः। , ३।२।७

"गां सञ्चष्टे" इति। वाक्यविशेषेण "चक्षिङः ख्याञ्" २।४।५४ इति ख्याञादेशस्य ग्रहणम्, न "ख्या प्रकथने" (धा।पा।१०६०) इत्येतस्येति दर्शयति। एतच्च संपूर्वस्य ख्यातेः प्रयोगासम्भवाल्लभ्यते॥
बाल-मनोरमा
समि ख्यः ७३७, ३।२।७

समि ख्यः। "समी"ति पञ्चम्यर्थे सप्तमी। गोसङ्ख्य इति। गाः संचष्ट इति विग्रहः। संपूर्वाच्चक्षिङः ख्याञि रूपम्। "ख्या प्रकथने" इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते।

तत्त्व-बोधिनी
समि ख्यः ६१६, ३।२।७

गोसङ्ख्य इति। गाः संचष्टे इति विग्रहः। "चक्षिङः ख्याञ्"। ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रोयगो नास्तीति न्यासकारः। सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम्।