पूर्वम्: ३।२।६३
अनन्तरम्: ३।२।६५
 
सूत्रम्
वहश्च॥ ३।२।६४
काशिका-वृत्तिः
वहश् च ३।२।६४

वहेर् धातोः छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति। प्रष्ठवाट्। दिव्यवाट्। योगविभाग उत्तरार्थः।
न्यासः
वहश्च। , ३।२।६४

"पृष्ठवाट्" इति। पूर्ववद्()वृद्धिः, ढत्वजश्त्वचत्र्वानि। योगविभागं उत्तरार्थः-- उत्तरत्र बहेनुवृत्तिर्यथा स्यात्, सहेर्मा भूत्। एकयोगे हि सति द्वयोरप्यनुवृत्तिः स्यात्॥