पूर्वम्: ३।२।६४
अनन्तरम्: ३।२।६६
 
सूत्रम्
कव्यपुरीषपुरीष्येषु ञ्युट्॥ ३।२।६५
काशिका-वृत्तिः
कव्यपुरीषपुरीष्येषु ञ्युट् ३।२।६५

कव्य पुरीष पुरीष्य इत्येतेषु उपपदेषु छन्दसि विषये वहेर् धातोः ण्युट् प्रत्ययो भवति। कव्यवाहनः पितृ̄णाम्। पुरीषवाहणः। पुरीष्यवाहनः।
न्यासः
कव्यपरीषपरीष्येषु ञ्युट्। , ३।२।६५

पूर्वेण च्वौ प्राप्ते ञ्यृड्विधीयते। टकारो ङीबर्थः, ञकारः स्वरार्थो वृद्ध्यर्थश्च। युमात्रं प्रत्ययः, तस्य "युवोरनाकौ"७।१।१ इत्यनादेशः॥