पूर्वम्: ३।२।६७
अनन्तरम्: ३।२।६९
 
सूत्रम्
अदोऽनन्ने॥ ३।२।६८
काशिका-वृत्तिः
अदो ऽनन्ने ३।२।६८

छन्दसि इति निवृत्तम्। अदेर् धातोरनन्ने सुप्युपपदे विट् प्रत्ययो भवति। आममत्ति आमात्। सस्यात्। अनन्ने इति किम्? अन्नादः।
न्यासः
अदोऽनन्ने। , ३।२।६८

बाल-मनोरमा
अदोऽनन्ने ७८७, ३।२।६८

अदोऽनन्ने। विट् स्यादिति। शेषपूरणमिदम्। अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम्। "जनसनखनक्रमगमो वि"जिति छान्दससूत्राद्विडित्यनुवर्तते। सस्यादिति। सस्यमत्तीति विग्रहः। अन्नाद इति। कर्मण्यण्।

तत्त्व-बोधिनी
अदोऽनन्ने ६५३, ३।२।६८

अदोऽनन्ने। विट् स्यादिति। "जनसनखनक्रमगमो विट्िति पूर्वसूत्रादनुवृत्तेः। पूर्वसूत्रं त्विह नोपन्यस्तम्, तत्र हि "छन्दसि सहः" इत्यश्छन्दसीत्यनुवर्तनात्।