पूर्वम्: ३।२।६८
अनन्तरम्: ३।२।७०
 
सूत्रम्
क्रव्ये च॥ ३।२।६९
काशिका-वृत्तिः
क्रव्ये च ३।२।६९

क्रव्यशब्द उपपदे अदेर् धातोः विट् प्रत्ययो भवति। क्रव्यमत्ति क्रव्यात्। पूर्वेण एव सिद्धे वचनम् असरूपबाधनार्थम्। तेन अण् न भवति। कथं तर्हि क्रव्यादः? कृत्तविकृत्तशब्दे उपपदे अण्, तस्य च पृषोदरादिपाठात् क्रव्यभावः। कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यातिति।
बाल-मनोरमा
क्रव्ये च् ७८८, ३।२।६९

क्रव्ये च। अदेर्विडिति। शेषपूरणमिदम्। अण्बाधनार्थमिति। क्रव्ये अदेर्विडेव, न त्वणित्यर्थलाभादिति भावः। कथं तर्हीति। "क्रव्ये उपपदे अदेर्विडेवे"ति नियमादणोऽसंभवादित्याक्षेपः। समाधत्ते-- पक्वमांसशब्ददिति। तर्हि "पक्वमांसाद" इति स्यादित्यत आह--उपपस्य क्रव्यादेश इति। कुत इत्येत आह-- पृषोदरादित्वादिति।