पूर्वम्: ३।२।७१
अनन्तरम्: ३।२।७३
 
सूत्रम्
अवे यजः॥ ३।२।७२
काशिका-वृत्तिः
अवे यजः ३।२।७२

अवे उपपदे यजेः धातोः ण्विन् प्रत्ययो भवति मन्त्रे विषये। त्वं यज्ञे वरुणस्य अवया असि। योगविभाग उत्तरार्थः।
न्यासः
अवे यजः। , ३।२।७२

"योगविभाग उत्तरार्थः"इति। उत्तरसूत्रे यजरेवानुवृत्तिर्यथा स्यात्॥