पूर्वम्: ३।२।७२
अनन्तरम्: ३।२।७४
 
सूत्रम्
विजुपे छन्दसि॥ ३।२।७३
काशिका-वृत्तिः
विजुपे छन्दसि ३।२।७३

उपे उपपदे यजेः छन्दसि विषये विच् प्रत्ययो भवति। उपयड्भिरूर्ध्वं वहन्ति। उपयट्त्वम्। छन्दोग्रहणं ब्राह्मणार्थम्। विचः चित्करणं सामान्यग्रहणाविघातार्थम् वेरपृक्तस्य ६।१।६५ इति। किम् अर्थम् इदम् उच्यते, यावत अन्येभ्यो ऽपि दृश्यन्ते ३।२।७५ इति यजेरपि विच् सिद्ध एव? यजेर् नियमार्थम् एतत्, उपयजेः छन्दस्य इव, न भाषायाम् इति।
न्यासः
विजुपे छन्दसि। , ३।२।७३

"उपयड्()भीः"इति। "व्रश्चादिना" ८।२।३६ षत्वम्, पूर्ववज्जश्त्वम्-- डकारः। "उभयट्()त्वम्" इति। त्वप्रत्यये परतः "खरि च" ८।४।५४ इति चर्त्वं टकारः। ननु च "मन्त्रे" ३।२।७१ इत्यनुवर्त्तिष्यते, मन्त्रश्च च्छन्द एव, तत् किमर्थं छन्दसिग्रहणं क्रियत इत्याह-- "छन्दोग्रहणं ब्राआहृणार्थम्" इति। असति च्छन्दोग्रहणे मन्त्रग्रहणानुवृत्तेरपि ब्राआहृणे न स्यात्, न हि मन्त्रग्रहणेन ब्राआहृणं गृह्रते;तस्य ग्रन्थान्तरत्वात्। मन्त्रव्याख्याने ग्रन्थविशेषे ब्राआहृणशब्दो वत्र्तते, न तु मन्त्रे ; तसमाद्()ब्राआहृणेऽपि यथा स्यादित्येवमर्थं छन्दसीत्युक्तम्। "विचश्चित्करणम्" इत्यादि। असति चित्करण एष एकानुबन्धः स्यात्। ततश्च "वेरपृक्तस्य" ६।१।६५ इत्यत्रैकानुबन्धकपरिभाषया (व्या।प।५२) अस्यैव ग्रहणं स्यात्, न क्विबादीनाम्। चित्करणे तु सत्येकानुबन्धो न कश्चिदस्तीति सर्वे गृह्रन्ते॥