पूर्वम्: ३।२।८१
अनन्तरम्: ३।२।८३
 
सूत्रम्
मनः॥ ३।२।८२
काशिका-वृत्तिः
मनः ३।२।८२

सुपि इति वर्तते। मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति। दर्शनीयमानी। शोभनमानी। बहुलग्रहणानुवृत्तेः मन्यतेः ग्रहणं न मनुतेः। उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषः स्यात्।
लघु-सिद्धान्त-कौमुदी
मनः ८०७, ३।२।८२

सुपि मन्यतेर्णिनिः स्यात्। दर्शनीयमानी॥
न्यासः
मनः। , ३।२।८२

"मन्यतेग्र्रहणम्" इति। "मन ज्ञाने" (धा।पा।११७६) इत्येतस्य दैवादिकस्य। "न मनुतेः" इति। "मनु अवबोधने" (धा।पा।१४७१) इत्येतस्य तानादिकस्य ग्रहणं न भवति। नन #उ च यदेव मन्यतेर्णिनिप्रत्यये कृते दर्शनीयमानीति रूपं भवति, तदेव मनुतेरपि,तत् कोऽत्र विशेषो यतो मन्यतेग्र्रहणमिष्यते,न मनुतेरित्यत आह-- "उत्तरसूत्रे हि" इत्यादि। यद्यपीह विशेषो नास्ति, उत्तरसूत्रे तु विकरणकृतो विशेषोऽस्ति, तत्र हि मन्यतेः खशि कृते दिवादित्वाच्छ्यन् भवति, मनुतेस्तु तनादित्वादुप्रत्ययः॥
बाल-मनोरमा
मनः ८०२, ३।२।८२

मनः। दैवादिकस्यैव मनेग्र्रहणं न तु तानादिकस्य, बहुलग्रहणाऽनुवृत्तेः। तदाह--मन्यतेरिति। मनुतेग्र्रहणे तु बाधकमुत्तरसूत्रे वक्ष्यते।

तत्त्व-बोधिनी
मनः ६६२, ३।२।८२

मनः। बहुलग्रहणानुवृत्तेरिह मन ज्ञान दैवादिकस्यैव ग्रहणं न तु मनु अवबोधन इति तानादिकस्य। तेन उत्तरसूत्रे खशि श्यनेव भवति न तूप्रत्ययः। तदाह-- मन्यतेरिति।