पूर्वम्: ३।२।८०
अनन्तरम्: ३।२।८२
 
सूत्रम्
बहुलमाभीक्ष्ण्ये॥ ३।२।८१
काशिका-वृत्तिः
बहुलम् आभीक्ष्ण्ये ३।२।८१

आभीक्ष्ण्ये गम्यमाने धातोः बहुलं णिनिः प्रत्ययो भवति। अभीक्ष्ण्यं पौनःपुन्यम्। तात्पर्यम् आसेवैव, ताच्छील्यादन्यत्। कषायपायिणो गन्धाराः। क्षीरपायिणः उशीनराः। सौवीरपायिणो बाह्लीकाः। बहुलग्रहणत् कुल्माषखादः इत्यत्र न भवति।
न्यासः
बहुलमाभीक्ष्ण्ये। , ३।२।८१

"आभीक्ष्ण्यं पौनःपुन्यम्" इति। पुनः पुनर्भावः पौनःपुन्यमिति, अव्ययानां भमात्रे टिलोपः। "तात्पर्यमासेवैव" इति। तदेवाभीक्ष्ण्यम्। पर्यायान्तराभ्यां स्पष्टीकरोति-- "{ताच्छील्यादन्यत्--काशिका, पदमंजरी च।} ताच्छील्यादन्यः" इति। एतेन "सुप्यजातौ" ३।२।७८ इत्यादिनाऽ‌ऽभीक्ष्ण्ये न सिध्यतीत्यसामथ्र्यमुद्भावयन्नस्य योगस्य फलं दर्शयति-- "कषायपायिणः"इति। यत्र देशे कषायं पुनः पुनः पिबतामारोग्यं भवति, अतस्ते कषायं पिबन्तीति, न तु ताच्छील्यात्। "क्षीरपायिणः"इति। तेऽपि तथोक्तादेव कारणात् पानान्तराभावाद्वा ताच्छील्याभावेऽप्यगत्या क्षीरं पिबन्ति। "सौवीरपायिणः" इति। अत्राप्येतदेवानन्तरोक्तं पुनः पुनः सौवीरपानस्य कारणम्। सर्वत्र "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्। "प्रातिपदिकान्तनुम्" ८।४।११ इत्यादिना णत्वम्। "कुल्माषखादः" इति। "कर्मण्यण्" ३।२।१
बाल-मनोरमा
बहुलमाभीक्ष्ण्ये ८०१, ३।२।८१

बहुलमाभीक्ष्ण्ये। जातावप्युपपदे प्राप्त्यर्थमिदम्। तद्ध्वनयन्नुदाहरति-- क्षीरपायिण इति।