पूर्वम्: ३।२।८८
अनन्तरम्: ३।२।९०
 
सूत्रम्
सुकर्मपापमन्त्रपुण्येषु कृञः॥ ३।२।८९
काशिका-वृत्तिः
सुकर्मपापमन्त्रपुण्येषु कृञः ३।२।८९

कर्मणि इति वर्तते। तदसम्भवात् सुशब्दम् वर्जयित्वा परिशिष्टानां विशेषणं भवति। स्वादिषु कर्मसु उपपदेषु करोतेर् धातोः क्विप् प्रत्ययो भवति। सुकृत्। कर्मकृत्। पापकृत्। मन्त्रकृत्। पुण्यकृत्। अयम् अपि नियमार्थ आरम्भः। त्रिविधश्च अत्र नियम इष्यते। धातुनियमं वर्जयित्वा कालोपपदप्रत्ययनियमः। धतोरनियतत्वादन्यस्मिन्नुपपदे अपि भवति। शास्त्रकृत्। भाष्यकृट्।
न्यासः
सुकर्मपापमन्त्रपुण्येषु कृञः। , ३।२।८९

"सुशब्दं वर्जयित्वा"इति। तस्यासत्त्ववचनात् कर्मत्वानुपपत्तेः। "स्वादिषु कर्मसु" इति। बाहुल्यमाश्रित्योक्तम्, यथा-- "ब्राआहृणग्रामः, भट्टग्रामः" इति। कुत एतत्? सुशब्दं वर्जयित्वेत्यनन्तराणामेवाभिधानात्। "त्रिविधश्चात्र नियमः" इति। एतदपि बहुलग्रहणानुवृत्तेर्लभ्यते। "कालोपपदप्रत्यय{नियमः-काशिका}विषयः" इति। कालोपपदप्रत्यया विषया यस्य स तथोक्तः। स पुनः कालनियमः, उपपदनियमः, प्रत्ययनियमश्चेति। तत्र कालनियमः--स्वादिषु कृञो भूत एव क्विबेव बवति, नान्यः प्रत्यय इति; न भवति-- कर्म कृतवान् कर्मकार इति। उपपदनियमः--स्वादिषु कृञ एव, नान्यस्माद्धातोरिति; न हि भवति क्विप्-- मन्त्रमधीतवानिति, अणेव भवति मन्त्राध्याय इति। प्रत्ययनियमः-- स्वादिषु कृञो भूत एव क्विप्, न वत्र्तमाने, भविष्यत् इवा, तेन मन्त्रं करोति, मन्त्रं करिष्यतीति वेत्यर्थविवक्षायां मन्त्रकृदिति न भवति। "शास्त्रकृत्" इति। "क्विप् च" ३।२।७६ इति क्विप्॥
बाल-मनोरमा
सुकर्मपापमन्त्रपुण्येषु कृञः ८०९, ३।२।८९

सुकर्म।सु, कर्म, पाप, मन्त्र, पुण्य एषां पञ्चानां द्वन्द्वः। त्रिविध इति। "सुकर्मादिषु भूते कृञः क्विबेवे"ति, "सुकर्मादिषु भूते कृञ एव क्विबिति, "सुकर्मादिषु भूते कृञ एव क्वि"बिति "सुकर्मादिषु भूत एव कृञ" इति त्रिविध इत्यर्थः। अण् नेति। क्तवतुस्तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्तेरिति भावः। स्वादिष्वेवेति। सुकर्मादिषु पञ्चस्वित्यर्थः।

तत्त्व-बोधिनी
सुकर्मपापमन्त्रपुण्येषु कृञः ६६९, ३।२।८९

सुकर्म। त्रिविध इति। धातुनियमस्त्विह नेष्त इति भावः। क्विबेवेतीति। "भूते क्विबेवे"ति प्रत्ययान्तरसंबन्धनिवृत्तिफलककालनियमादित्यर्थः। कृञ एवेतीति। "सुकर्मादिषु कृञ एवे"ति धात्वन्तरसंबन्धनिवृत्तिफलकोपपदनियमादित्यर्थः। भूत एवतीति। "भूत एव क्वि"बिति कालान्तरसंबन्धनिवृत्तिफलकप्रत्ययनियमादित्यर्थः। स्वादिष्वेवेतीति। "स्वादिष्वेव कृञ" इत्युपपदान्तरसंबन्धनिवृत्तिफलकधातुनियमाऽभावादित्यर्थः।