पूर्वम्: ३।२।९५
अनन्तरम्: ३।२।९७
 
सूत्रम्
सहे च॥ ३।२।९६
काशिका-वृत्तिः
सहे च ३।२।९६

सहशब्दे च उपपदे युधिकृञोः धात्वोः क्वनिप् प्रत्ययो भवति। असत्त्ववाचित्वान् न उपपदं कर्मणा विशेष्यते। सहयुध्वा। सहकृत्वा।
लघु-सिद्धान्त-कौमुदी
सहे च ८१३, ३।२।९६

कर्मणीति निवृत्तम्। सह योधितवान् सहयुध्वा। सहकृत्वा॥
बाल-मनोरमा
सहे च ८१६, ३।२।९६

सहे च। सहशब्दे उपपदे युधिकृञ्भ्यां क्वनिबित्यर्थः।

तत्त्व-बोधिनी
सहे च ६७३, ३।२।९६

इदमपि सूत्रद्वयं "दृशेः क्वनि" बितिवन्नियमार्थमिति न्याय्यम्। वस्तुतस्तु दृशिग्रहणेन निर्वाहस्याऽगतिकत्वादियं त्रिसूत्री विधात्रीत्यपि सुवचम्। प्राचां ग्रन्थास्त्विहोदासीना एवेति शब्दकौस्तुभे स्थितम्।