पूर्वम्: ३।२।९६
अनन्तरम्: ३।२।९८
 
सूत्रम्
सप्तम्यां जनेर्डः॥ ३।२।९७
काशिका-वृत्तिः
सप्तम्यां जनेर् डः ३।२।९७

सप्तम्यन्त उपपदे जनेर् धतोः डः प्रत्ययो भवति। उपसरे जातः उपसरजः। मन्दुरजः।
लघु-सिद्धान्त-कौमुदी
सप्तम्यां जनेर्डः ८१४, ३।२।९७

न्यासः
सप्तम्यां जनेर्डः। , ३।२।९७

सप्तमीति प्रत्ययग्रहणम्।तत्र प्रत्ययग्रहणपरिभाषया तदन्तस्य ग्रहणं भवतीत्याह-- "सप्तम्यन्त उपपदे" इति। स्वरूपग्रहणमत एव न भवति। "उपसरजः" इति। डित्करणसामथ्र्यादभसंज्ञकस्यापि टिलोपः। "मन्दुरजः" इति। "ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्" ६।३।६२ इति ह्यस्वः॥
बाल-मनोरमा
सप्तम्यां जनेर्डः ८१७, ३।२।९७

सप्तम्यां जनेर्डः। सप्तम्यन्ते उपपदे जनेर्भूताऽर्थाड्ड इत्यर्थः। सरसिजमिति। डित्त्वसामथ्र्यादभस्यापि टेर्लोपः। "हलदन्ता"दिति, "तत्पुरुषे कृतीटति वा अलुक्। मन्दुरज इति। "वाजिशाला तु मन्दुरे"त्यमरः।

तत्त्व-बोधिनी
सप्तम्यां जनेर्डः ६७४, ३।२।९७

मन्दुरायामिति। "वाजिशाला तु मन्दुरा" इत्यमरः।