पूर्वम्: ३।२।९८
अनन्तरम्: ३।२।१००
 
सूत्रम्
उपसर्गे च संज्ञायाम्॥ ३।२।९९
काशिका-वृत्तिः
उपसर्गे च संज्ञायाम् ३।२।९९

उपसर्गे च उपपदे जनेः डः प्रत्ययो भवति संज्ञायां विषये। समुदायोपाधिः संज्ञा। अथेमा मानवीः प्रजाः।
लघु-सिद्धान्त-कौमुदी
उपसर्गे च संज्ञायाम् ८१६, ३।२।९९

प्रजा स्यात्संततौ जने॥
न्यासः
उपसर्गे च संज्ञायाम्। , ३।२।९९

"समुदायोपाधिः"इति। धातूपसर्गप्रत्ययसमुदायेन यदि संज्ञा गम्यत इएवं प्रत्ययार्थो भवति, नान्यथेति दर्शयति-- "{प्रजाः- काशिका} प्रजाः" इति। प्राणिसमुदायस्यैषा संज्ञेति। यद्यस्य सूत्रस्य प्रजेत्येतदेवोदाहरणम्, तदा "प्रे जनः संज्ञायाम्िति वक्तव्ये प्रजेति सिध्यत्येव, किमुपसर्गग्रहणेन? उपसर्गग्रहणमुत्तरार्थम्; "अनौ कर्मणि"(३।२।१००) इत्युपसर्गे यथा स्यात्, कर्मप्रवचीये मा भूत्। अथानन्त्यस्य प्रयोगविषयस्यान्यस्मिन्नुपपदे कदाचित् प्रत्ययो दृश्यते यदि, तदैतदर्थमपि॥
बाल-मनोरमा
उपसर्गे च संज्ञायाम्। ८१९, ३।२।९९

उपसर्गे च। "जनेर्ड" इति शेषः। संज्ञायामिति समुदायोपाधिः।