पूर्वम्: ३।२।९९
अनन्तरम्: ३।२।१०१
 
सूत्रम्
अनौ कर्मणि॥ ३।२।१००
काशिका-वृत्तिः
अनौ कर्मणि ३।२।१००

अनुपूर्वात् जनेः कर्मणि उपपदे डः प्रत्ययो भवति। पुमांसमनुजातः पुमनुजः। स्त्र्यनुजः।
न्यासः
अनौ कर्मणि। , ३।२।१००

"अनुपूर्वाज्जनेः" इत्यादि। अथानुशब्दस्योपपदत्वं कस्मान्न भवति? यतो न भवति स हेतुः "उदि कूलेरुजिवहोः" ३।२।३१ इत्यत्र व्याख्यात इति पुनर्नाख्यायते। "पुममुजः" इति। लुप्तेऽपि सुपि प्रत्ययलक्षणेन पदत्वम्, तेन संयोगान्तलोपो ८।२।२३ भवति॥
बाल-मनोरमा
अनौ कर्मणि ८२०, ३।२।१००

अनौ कर्मणि। ननु जनेरकर्मकत्वात्तत्र कर्मण्युपपदे इत्र्थस्य कथमन्वय इत्यत आह-- पुमांसमनुरुध्येति। अनुरुध्य जननं धात्वर्थ इति भावः। पुमनुजेति। पुंसिति पूर्वपदे संयोगान्तलोप इति भावः।

तत्त्व-बोधिनी
अनौ कर्मणि ६७५, ३।२।१००

पुमनुजेति। इह जनिः सकर्मकः, अनुरोधविशिष्टजननवृत्तित्वात्।