हलन्तो यो धातुः गुरुमान्, ततः स्त्रियाम् अकारः प्रत्ययो भवति। क्तिनो ऽपवादः। कुण्डा। हुण्डा। ईहा। ऊहा। गुरोः इति किम्? भक्तिः। हलः इति किम्? नीतिः।
"धातोः
३।१।९१ इत्यधिकाराद्गुरुग्रहणं हल्ग्रहणं च तस्यैव विशेषणं विज्ञायत इत्याह-- "गुरुमान् हलन्तो यो धातुः" इत्यादि।
कथं पुनर्गुरोरित्युच्यमाने गुरुमान् धातुर्लभ्यते? सामथ्र्यात्। न हि हलन्तस्य धातोः कस्यचिद्गुरुसंज्ञा विहिता, उच्यते चेदं गुरोरिति, तत्र सामथ्र्याद्गुरुमान् धातुर्गुरुसंज्ञाकेनाभेदोपचारं कृत्वा गुरुशब्देनोक्त इति गम्यते। इष्यते ह्रभेदोपचाराद्विनापि मतुपा तद्वतोरभिधाम्-- यथा-- शुक्लः पट इति। अथ रुधादिभ्य एव यथा स्यात्,
कुडिप्रभृतीभ्यो मा भूदित्येवमर्थो विपर्ययः कस्मान्न विज्ञायते "गुर्वन्तो यो धातुर्हल्वान्" इति? ज्ञापकात्, यदयं "गत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ चेष्टायामनध्वनि"
२।३।१२ इत्यप्रत्ययान्तस्य चेष्टाशब्दस्य "शकि शङ्गायाम्" (धा।पा।८६) इति च शङ्काशब्दस्य निर्देशं करोति, ततो ज्ञायते-- नात्र विपर्यय इति। विपर्यये हि न हि चेष्टेति गुर्वन्तः, नापि शङ्केति। "कुण्डा" इत्यादि। "कुडि दाहे" (धा।पा।२७०), "हुडि सङ्घाते" (धा।पा।२६९), "ईह चेष्टायाम्" (धा।पा।६३२) "ऊह वितर्के" (धा।पा।६४८)-- इत्येषां रूपाणि॥
गुरोश्च। धातोरित्यनुत्यवृत्त्या हल इति धातोर्विशेषणात्तदन्तविधौ हलन्तो धातुर्लभ्यते। न चाऽयं गुरुरिति संभवति। अज्विषयो हि गुरुः, अतो मत्वर्थो लक्ष्यते। तदाह --गुरुमत इति। ननु विपरीतमस्तु "गुर्वन्ताद्धल" इति, तादृशस्यापि धातोर्डुक्रीञित्यादेः सत्त्वादिति चेन्मैवम्। "चेष्टायामनध्वनि" "आशंसायां भूतवच्चे"ति निर्देशेन विपरीतशङ्काया अप्रवृत्तेः।