पूर्वम्: ३।३।१०५
अनन्तरम्: ३।३।१०७
 
सूत्रम्
आतश्चोपसर्गे॥ ३।३।१०६
काशिका-वृत्तिः
आतश् च उपसर्गे ३।३।१०६

आकारान्तेभ्यः उपसर्गे उपपदे स्त्रियम् अङ् प्रत्ययो भवति। क्तिनो ऽपवादः। प्रदा। उपदा। प्रधा। उपधा श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा।
न्यासः
आतश्चोपसर्गे। , ३।३।१०६

"श्रदन्तरोः"इत्यादि। उपसर्गे इवोपसर्गवत्। यादृश्युपसर्गे वृत्तिः प्रत्ययोत्पत्तिलक्षणा, तादृश्येव तयोरपि भवति। तेन यथा प्रधा, उपधेत्युपसर्गे भवति, तथा श्रदन्तरोरपि श्रद्धा, अन्तर्धेति। न चेयं वृत्तिरुपसंख्यानसाध्या; यतः श्रद्धाशब्दस्तारकादिषु च पाठात् साधुत्वमनुभवति। अन्तर्धाशब्दोऽपि ज्ञापकात्, यदयं "अन्तर्धौयेनादर्शनमिच्छति" १।४।२८ इत्यन्तर्धिशब्दस्य किप्रत्ययान्तस्य निर्देशं करोति, तततो ज्ञायते-- भवत्यन्तःशब्द उपसर्गकार्यस्य निमित्तमिति; अन्यथा हि तस्मिन्नुपपदे "उपसर्गे घोः किः" ३।३।९२ इति किप्रत्ययो न स्यात्, ततश्च "अन्तर्धौ" इति निर्देशो नोपपद्यते॥