पूर्वम्: ३।३।११०
अनन्तरम्: ३।३।११२
 
सूत्रम्
पर्यायार्हर्णोत्पत्तिषु ण्वुच्॥ ३।३।१११
काशिका-वृत्तिः
पर्यायार्हर्णौत्पत्तिषु ण्वुच् ३।३।१११

पर्यायः परिपाटीक्रमः। अर्हणमर्हः, तद्योग्यता। ऋणं तत् यत् परस्य धार्यते। उत्पत्तिः जन्म। एतेष्वर्थेषु धातोः ण्वुच् प्रत्ययो भवति। क्तिन्नादीनाम् अपवादः। पर्याये तावत् भवतः शायिका। भवतो ऽग्रग्रासिका। अर्हे अर्हति भवानिक्षुभक्षिकाम्। ऋणे इक्षुभक्षिकां मे धरयसि। ओदनभोजिकाम्। पयःपायिकाम्। उत्पत्तौ इक्षुभक्षिका मे उदपादि। ओदनभोजिका। पयःपायिका। विभाषा इत्येव, चिकीर्षा उत्पद्यते। ण्वुलि प्रकृते प्रत्ययान्तरकरनं स्वरार्थम्।
न्यासः
पर्यायार्हणोत्पत्तिषु ण्वुच्। , ३।३।१११

"क्तिन्नादीनामपवादः"इति। आदिशब्देनाकारादीनाम्। "अग्रगामिका" इति। अग्रस्य गामिका। कृद्योगलक्षणायाः कर्मणि षष्ठ्याः समासः। "स्वरार्थम्" इति। अन्तोदात्तत्वं यथा स्यादित्येवमर्थम्। ण्वुलि हि सति प्रत्ययात् पूर्वमुदात्तः स्यात्॥
तत्त्व-बोधिनी
पर्यायऽर्हणोत्पत्तिषु ण्वुच् १५६९, ३।३।१११

परिपाटीति। पट गतौ परिपूर्वः। "इणजादिभ्यः" इतीण्। "कृदिकारा"दिति ङीष्।