पूर्वम्: ३।३।१११
अनन्तरम्: ३।३।११३
 
सूत्रम्
आक्रोशे नञ्यनिः॥ ३।३।११२
काशिका-वृत्तिः
आक्रोशे नञ्यतिः ३।३।११२

विभाषा इति निवृत्तम्। आक्रोशः शपनम्। आक्रोशे गम्यमाने नञि उपपदे धातोः अनिः प्रत्ययो भवति। क्तिन्नादीनाम् अपवादः। अकरणिस्ते वृषल भूयात्। आक्रोशे इति किम्? अकृतिस्तस्य कटस्य। नञि इति किम्? मृतिस्ते वृषल भूयात्।
न्यासः
आक्रोशे नञ्यनिः। , ३।३।११२

तत्त्व-बोधिनी
आक्रोशे नञ्यनिः १५७०, ३।३।११२

आक्रोशे। आक्रोशःऋ-शापः। नपुंसके भावे क्तः। ननु "तयोरेव कृत्यक्तखलर्थाः" इति लिङ्गत्रयसाधारण्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति, किमनेन पुनर्विधानेनेति चेत्। अत्राहुः-- "भूते" इत्यधिकृत्य "निष्ठा" इति सूत्रेण विहितस्य क्तस्य भावोऽर्थः "तयोरेवे"ति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्तो विधीयते। एवं च स्वविषये परत्वाद्धञजपां बाधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति। किंच इह "भावे चाऽकर्मकेभ्य" इत्यस्याऽसन्निधानात्सकर्मकेभ्योऽप्ययं भवति, घञादिवत्। "गतं तिरिश्चीनमनूरुसारथेः" इत्यादिदर्शनात्। तथा च नास्त्यत्र शङ्केति। नन्वेवं कृद्योगे कर्मणि द्वितीया स्यात्, कृद्योगलक्षणषष्ठ()आ "न लोके"ति निषेधात्। एवं च "घटं कृतं" वृक्षं भिन्न"मित्यादि प्रसज्येत। "अनूरुसारथे"रित्यत्र तु कर्तरि तृतीया नापद्यते, कारकदृष्ट()आ निषेधेऽपि शेषत्विवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम्। नपुंसके भावे क्तस्य योगे षष्ठ()आ उपसङ्ख्यातत्वात्कर्मण द्वितीयया अभावात्। शेषत्बविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषत्वविवक्ष#ऐवेत्यस्तु वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्ह तत्प्रामाण्यात्प्रायेण शेषत्वविवक्षैवेत्यस्तु। तथा च "घटं कृत"मित्यादि तु न प्रसज्यत एव। क्वचित्तु द्वितीयाऽपि दृश्यते "भ्रान्तं देशमनेकदुर्गविषम"मि[ती]ति दिक्।