पूर्वम्: ३।३।११७
अनन्तरम्: ३।३।११९
 
सूत्रम्
पुंसि संज्ञायां घः प्रायेण॥ ३।३।११८
काशिका-वृत्तिः
पुंसि संज्ञायां घः प्रायेण ३।३।११८

करनाधिकरनयोः इत्येव। पुंलिङ्गयोः करणाधिकरनयोरभिधेययोः धातोः घः प्रत्ययो भवति समुदायेन चेत् संज्ञा गम्यते। प्रायग्रहणम् अकार्त्स्न्यार्थम्। दन्तच्छदः। उरश्छदः पटः। अधिकरणे खल्वपि एत्य तस्मिन् कुर्वन्ति इति आकरः। आलयः। पुंसि इति किम्? प्रसाधनम्। संज्ञायाम् इति किम्? प्रहरणो दण्डः। घकारः छन्देर् घे ऽद्व्युपसर्गस्य ६।४।९६ विशेषणार्थः।
न्यासः
पुंसि संज्ञायां घः प्रायेण। , ३।३।११८

"समुदायेण चेत्" इत्यादि। प्रकृतिप्रत्ययसमुदायेन यदि संज्ञा गम्यत एवं प्रत्ययो भवति, नान्यथा। "अकार्त्स्न्यार्थम्" इति। अकार्त्स्न्यम् = असाकल्यम्, प्रयोजनमर्थो यस्य तत् तथोक्तम्। एतेनाकृत्स्नविषयतां प्रत्ययस्य दर्शयति। "दन्तच्छदः" इति। "छद अपवारणे" (धा।पा।१९३५), चुरादिणिच्। "छादेर्घेऽद्वयुपसर्गस्य" ६।४।९६ इति ह्यस्वः, पूर्ववत् समासः। "प्रसाधनम्िति। "राध साध संसिद्धौ" (धा।पा।१२६२), १२६३), अस्माद्धेतुमण्ण्यन्तात् पूर्वसूत्रेण करणे ल्युट्, "कुगतिप्रादयः २।२।१८ इति समासः॥