पूर्वम्: ३।३।११८
अनन्तरम्: ३।३।१२०
 
सूत्रम्
गोचरसंचरवहव्रजव्यजापणनिगमाश्च॥ ३।३।११९
काशिका-वृत्तिः
गोचरसञ्चरवहव्रजव्यजाऽपणनिगमाश् च ३।३।११९

गोचरादयः शब्दाः घप्रययान्ता निपात्यन्ते पूर्वस्मिन्नेव अर्थे। हलश्च ३।३।१२१। इति घञं वक्ष्यति, तस्य अयम् अपवादः। गावश्चरन्ति अस्मिनिति गोचरः। सञ्चरन्ते अनेन इति सञ्चरः। वहन्ति तेन वहः। व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः। निपातनातजेर् व्यघञपोः २।४।५६ इति वीभावो न भवति। एत्य तस्मिन्नापणन्ते इत्यापणः। निगच्छन्ति तस्मिनिति निगमः। चकारो ऽनुक्तसमुच्चयार्थः। कषः। निकषः।
न्यासः
गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च। , ३।३।११९

"पूर्वस्मिन्नेवार्थे" इति। करणेऽधिकरणे च। ननु पूर्वसूत्रेणैव गोचरादिषु घः सिद्धः, तत्किमित्ययं योग आरभ्यते? इत्याह-- "हलश्च" इत्यादि। ननु च प्रत्ययग्रहणं तत्रानुवर्तिष्यते, तेन गोचरादिषु घञ् भविष्यति? प्रतिपत्तिगौरवं तु स्यात; प्रायग्रहणानुवृत्तेरज्ञापकत्वात्॥