पूर्वम्: ३।३।१२०
अनन्तरम्: ३।३।१२२
 
सूत्रम्
हलश्च॥ ३।३।१२१
काशिका-वृत्तिः
हलश् च ३।३।१२१

पुंसि सञ्ञायाम्, करणाधिकरणयोश्च इति सर्वम् अनुवर्तते। हलन्ताद् धातोः करणाधिकरणयोः घञ् प्रत्ययो भवति। घस्य अपवादः। लेखः। वेदः। वेष्टः। वन्धः। मार्गः। अपामार्गः। वीमार्गः।
लघु-सिद्धान्त-कौमुदी
हलश्च ८७८, ३।३।१२१

हलन्ताद्घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥
न्यासः
हलश्च। , ३।३।१२१

"वेष्टः" इति। "वेष्ट वेष्टने" (धा।पा।२५५)। "मार्गोऽपामार्गः" इति। "{मृजू-धा।पा।} (धा।पा।१०६६)। "चजोः ७।३।५२ इत्यादिना कुत्वम्, मृजेर्वृद्धिः, ७।२।११४ "उपसर्गस्य घञि" ६।३।१२१ इति दीर्घः॥