पूर्वम्: ३।३।११९
अनन्तरम्: ३।३।१२१
 
सूत्रम्
अवे तॄस्त्रोर्घञ्॥ ३।३।१२०
काशिका-वृत्तिः
अवे तृ̄स्त्रोर् घञ् ३।३।१२०

अवे उपपदे तरतेः स्तृणातेश्च धातोः करनाधिकरणयोः संज्ञायाम् घञ् प्रत्ययो भवति। घस्यापवादः। ञकारो वृद्ध्यर्थः स्वरार्थश्च। घकारः उत्तरत्र कुत्वार्थः। अवतारः। अवस्तारः। कथम् अवतारो नद्याः, न हीयं सज्ञा? प्रायानुवृत्तेः असंज्ञायाम् अपि भवति।
लघु-सिद्धान्त-कौमुदी
अवे तॄस्त्रोर्घञ् ८७७, ३।३।१२०

अवतारः कूपादेः। अवस्तारो जवनिका॥
न्यासः
अवे तृ?स्त्रोर्घञ्। , ३।३।१२०

"स्तृणातेः"इति। "स्तृञ् आच्छादने" (धा।पा।१४८४) इत्यस्मात्। "प्रायानुवृत्तेः" इत्यादि। प्रायशब्दस्यानुवृत्तौ सत्यामेव उपपदे तृस्त्रोर्घञ्प्रत्ययो भवति संज्ञायां प्रायेणोपधिभूतायामित्येषोऽर्थो लभ्यते। "न संज्ञायाम्िति। अस्योपाधेः प्रायिकत्वात् क्वचिदसंज्ञायामपि भवति॥
तत्त्व-बोधिनी
अवे तृ?रुआओर्घञ् १५७४, ३।३।१२०

अवे। अवे उपपदे तृ()स्त-डभ्यां करणाधिकारणयोः पुंसि संज्ञायां घञ्स्यात्। घस्यांपवादः।