पूर्वम्: ३।१।१२३
अनन्तरम्: ३।१।१२५
 
सूत्रम्
ऋहलोर्ण्यत्॥ ३।१।१२४
काशिका-वृत्तिः
ऋहलोर् ण्यत् ३।१।१२४

पञ्चम्यर्थे षष्ठी। ऋवर्णान्ताद् धातोर् हलन्ताच् च ण्यत् प्रत्ययो भवति। कार्यम्। हार्यम्। धार्यम् वाक्यम्। पाक्यम्।
लघु-सिद्धान्त-कौमुदी
ऋहलोर्ण्यत् ७८३, ३।१।१२४

ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्। कार्यम्। हार्यम्। धार्यम्॥
न्यासः
ऋहलोण्र्यत्। , ३।१।१२४

"पञ्चम्यर्थे षष्ठी" इति। "व्यत्ययो बहुलम्" ३।१।८५ इत्यनेन। कस्याः पुनः पञ्चम्या अर्थे षष्ठी? दिग्योगलक्षणायाः। प्रत्ययविधौ हि "परश्च" ३।१।२ इति सम्बन्धात् पञ्चम्या भाव्यम्॥
बाल-मनोरमा
ऋहलोण्र्यत् ६९२, ३।१।१२४

ऋहलोण्र्यत्। पञ्चम्यर्थे षष्ठी। तदाह-- ऋवर्णान्तादिति।