पूर्वम्: ३।३।१२७
अनन्तरम्: ३।३।१२९
 
सूत्रम्
आतो युच्॥ ३।३।१२८
काशिका-वृत्तिः
आतो युच् ३।३।१२८

ईषदादयो ऽनुवर्तन्ते। कर्तृकर्मणोः इति न स्वर्यते। कृच्छ्राकृच्छ्रार्थेषु ईषदादिषु उपपदेषु आकारान्तेभ्यो धतुभ्यः युच् प्रत्ययो भवति। खलो ऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः। ईषद्दानो गौर्भवता। दुर्दानः। सुदानः।
लघु-सिद्धान्त-कौमुदी
आतो युच् ८८०, ३।३।१२८

खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥
न्यासः
आतो युच्। , ३।३।१२८

तत्त्व-बोधिनी
आतो युच् १५८२, ३।३।१२८

इत्यादीति। आदिशब्देन दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः।