पूर्वम्: ३।३।१२८
अनन्तरम्: ३।३।१३०
 
सूत्रम्
छन्दसि गत्यर्थेभ्यः॥ ३।३।१२९
काशिका-वृत्तिः
छन्दसि गत्यर्थेभ्यः ३।३।१२९

ईषदादिसु कृच्छ्राकृच्छ्रार्थेषु उपपदेषु गत्यर्थेभ्यो धातुभ्यः छन्दसि विषये युच् प्रत्ययो भवति। खलो ऽपवादः। सूपसदनो ऽग्निः। सूपसदनम् अन्तरिक्षम्।
न्यासः
छन्दसि गत्यर्थेभ्यः। , ३।३।१२९

"सूपसदनम्" इति। "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।८५४), उपपूर्वः॥