पूर्वम्: ३।३।१४८
अनन्तरम्: ३।३।१५०
 
सूत्रम्
गर्हायां च॥ ३।३।१४९
काशिका-वृत्तिः
गर्हायां च ३।३।१४९

अनवक्लृत्प्यमर्षयोः इति निवृत्तम्। गर्हा, निन्दा, कुत्सा इत्यनर्थान्तरम्। यच् च यत्र इत्येतयोः उपपदयोर् धतोः लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्। सर्वलकाराणाम् अपवादः। यच् च तत्रभवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेदृद्धो वृद्धः सन् ब्राह्मणः, गर्हामहे, अहो अन्याय्यम् एतत्। क्रियातिपत्तौ यथायथं लृङ् भवति।
न्यासः
गर्हायां च। , ३।३।१४९

बाल-मनोरमा
गर्हायां च ६२९, ३।३।१४९

गर्हायां च। निवृत्तमिति। व्याख्यानादिति भावः। "यच्चत्रयोरिति, लिहिति चानुवर्तते। तदाह---यच्चयत्रयोर्योगे इति।लिङेवेति। नतु लकारान्तरमित्यर्थः। उदारसणे यच्चेति यत्रेति च गर्हाद्योतकम्। "त्वं शूद्रं याजये" रितियत्तदन्याय्यमित्यन्वयः। लृङ् प्राग्वत्।

तत्त्व-बोधिनी
गर्हायां च ५२०, ३।३।१४९

गर्हायां च। कालत्रयेऽयं भवतीति सर्वलकारापवादः। लिङेव स्यादिति।गर्हायां "विभाषा कथमी"ति लट् प्राप्तस्तत्रैव "किंवृत्ते" इति लृट् प्राप्तस्तयोरपवादो यच्चत्रयोर्योगे विहितोऽयं लिङिति भावः। लृङ् प्राग्वत्। "यच्च यत्र वा त्वं शूद्रमयाजयिष्यस्तदन्याय्य"मित्यादि।