पूर्वम्: ३।३।१४९
अनन्तरम्: ३।३।१५१
 
सूत्रम्
चित्रीकरणे च॥ ३।३।१५०
काशिका-वृत्तिः
चित्रीकरणे च ३।३।१५०

यच्चयत्रयोः इत्येव। चत्रीकरणम् आश्चर्यम्, अद्भुतम्, विस्मयनीयम्। यच्चयत्रयोः उपपदयोः चित्रीकरणे गम्यमाने धातोः लिङ् प्रत्ययो भवति। सर्वलकाराणाम् अपवादः। यच् च तत्रह्बवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेत्, आश्चर्यम् एतत्। क्रियातिपत्तौ यथायथं लृङ् भवति।
न्यासः
चित्रीकरणे च। , ३।३।१५०

बाल-मनोरमा
चित्रीकरणे च ६३०, ३।३।१५०

चित्रीकरणे च। यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिहेव स्यान् तु लकारान्तरमित्यर्थः। उदाहरणे यच्चेति यत्रेति चाश्चर्यद्योतकम्। त्वं शूद्रं याजयेरिति यत्तदाश्चर्यमित्यन्वयः।

तत्त्व-बोधिनी
चित्रीकरणे च ५२१, ३।३।१५०

चित्रीकरणे च। अयमपि कालत्रये। लृङ् प्राग्वत्। यच्च यत्र वा त्वं शूद्रमयाजयिष्यः, आश्चर्यमेतत्!!।