भविष्यति इत्येव। भविष्यदनद्यतने ऽर्थे वर्तमानाद् धतोः लुट् प्रत्ययो भवति। लृटो ऽपवादः। श्वः कर्ता। श्वो भोक्ता। अनद्यतने इति बहुव्रीहिनिर्देशः। तेन व्यामिश्रे न भवति। अद्य श्वो वा भविष्यति। परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या। इयं नु कदा गन्ता, या एवं पादौ निदधाति। अयं नु कदा ऽध्येता, य एवम् अनभियुक्तः।
"अनद्यतन इति बहुव्रीहिनिर्देशः" इति। अद्य भावो नास्यास्मिन्नित्यनद्यतनः। "तेन" इत्यादिना बहुव्रीहिसमासाश्रयणस्य फलं दर्शयति। एतच्च "अनद्यतने लङ्"
३।२।१११ इत्यत्र व्याख्यातप्रायमिति तत एवादवगन्तव्यम्। "अद्य ()आओ वा गमिष्यति" इति। अद्य ()आश्च गमिष्यतीत्यर्थः।
"परिदेवने" इत्यादि। भविष्यदनद्यतने लुडुक्तो भविष्यत्सामान्ये न प्राप्नोति, इष्यते च, एतदर्थमिदमुच्यते। परिदेवनम् = अनुशोचनम्। "()आस्तनी" इति। लुट इयमन्याचार्यसंज्ञा।
"वक्तव्या" इति। व्याख्येया। तत्रेदं व्याख्यानम्-- "लृट् शेषे च"
३।३।१३ इत्यतश्चकारोऽनुवनत्र्तते, स चानुक्तसमुच्चयार्थः। ततः परिदेवने ()आस्तनी भविष्यत्यर्थे भविष्यतीति। अन्यस्त्वयं नु कदा गन्तेत्यादावनद्यतन एव काले लुडिति दर्शयन्नाह-- पदमन्वाख्याने व्याकरणे च, तच्च पदं गन्तेत्यादिकमनद्यतन एव वत्र्तते। तस्य यदाऽनद्यतने भविष्यत्सामान्ये वा वृत्तिः सार्थात् प्रकरणाद्वा भवतीति वाक्यार्मथोऽवतिष्ठते। न च वाक्यार्थः पदसंस्कारस्य निमित्तम्,
किं तर्हि? पदार्थः। तस्मादनद्यतने लुडित्येष सिद्धमिति। अनेन तु न्यायेन परिदेवने ()आस्तनीत्यादि सम्यगेतत्। लुटोऽपि टकारष्टेरेत्वार्थः; उकारः "लुटः प्रथमस्य डारौरसः"
२।४।८५ इति विशेषणार्थः॥