पूर्वम्: ३।३।१३
अनन्तरम्: ३।३।१५
 
सूत्रम्
लृटः सद् वा॥ ३।३।१४
काशिका-वृत्तिः
लृटः सद्वा ३।३।१४

लृटः स्थाने सत्संज्ञौ शतृशानचौ वा भवतः। व्यवस्थितविभाषा इयम्। तेन यथा लटः शतृशानचौ तथा अस्य अपि भवतः। अप्रथमासमानाधिकरणाऽदिषु नित्यम्, अन्यत्र विकल्पः। करिष्यन्तं देवदत्तं पश्य। करिष्यमाणं देवदत्तं पश्य। हे करिष्यन्। हे करिस्यमाण। अर्जयिष्यमणो वसति। प्रथमासमानाधिकरणे विकल्पः करिष्यन् देवदत्तः। करिस्यमणो देवदत्तः। करिष्यति। करिस्यते।
लघु-सिद्धान्त-कौमुदी
ऌटः सद्वा ८३८, ३।३।१४

व्यवस्थितविभाषेयम्। तेनाप्रथमासामानाधिकरण्ये प्रत्योत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम्। करिष्यन्तं करिष्यमाणं पश्य॥
न्यासः
लृटः सद्वा। , ३।३।१४

"सत्संज्ञौ" इति। "तौ सत्" ३।२।१२७ इतिसंज्ञाविहितत्वाच्छतृशानचौ सत्संज्ञकौ। कथं पुनर्लृटः शतृशानचौ भवत इत्याह-- "अप्रथमासमानाधिकरणे" इत्यादि। प्रथमासमानाधिकरणे विकल्पेन यथा लटः शतृशानचौ,तथा लृटोऽपि व्यवस्थितविभाषया सत्संज्ञकौ भवतः। अप्रथमासमानाधिकरणादिषु नित्यं भवतः-- करिष्यन्तं पश्य, करिष्यमाणं पश्य, हे करिष्यन्, हे करिष्यमाण, अर्जयिष्यन् वसति, करिष्यद्भक्तिः, करिष्यमाणभक्तिः, करिष्यद्रूपः,करिष्यमाणरूप इत्यप्रथमासमानाधिकरणे। प्रथमासमानाधिकरणे तु विकल्पः-- करिष्यति देवदत्तः करिष्यन् देवदत्तः; करिष्यते देवदत्तः, करिष्यमाणो देवदत्त इति। लृडिति वत्र्तमाने पुनर्लृड्()ग्रहणं स्थानिनिर्देशार्थम्; इतरथा हि प्रत्ययान्तरत्वं सत्संज्ञकयोर्विज्ञायेत। लृण्मात्रस्य यथा स्यादित्येवमर्थं वा। तेन योऽनद्यतने लृट् तस्यापि भवतः-- ()आओऽग्नीनाधास्यमानेनेति। "अभिज्ञावचने लृट्" ३।२।११२ इत्यस्य न भवतः; भविष्यतीत्यधिकारात्, अस्य च भविष्यत्कालविहितत्वात्। अनद्यतने पुनर्लृडुत्तरसूत्रेऽनद्यतन इतियोगविभागाद्भवतीति वेदितव्यम्। लृटष्टकारष्टेरेत्वार्थः, ऋकारः "स्यतासी लृलुटोः" ३।१।३३ इत्यत्र विशेषार्थः॥
बाल-मनोरमा
लृटः सद्वा ९०९, ३।३।१४

लृटः सद्वा। लृटः शतृशानचौ वा स्त इत्यर्थः। व्यवस्थितेति। व्याख्यानादिति भावः। नित्यमिति। तेन तिङां निवृत्तिः। अप्रथमासामानाधिकरण्ये उदाहरति-- करिष्यन्तमिति। प्रत्ययये परत उदाहरति-- कारिष्यत इति। उत्तपदे उदाहरति-- करिष्यद्भक्तिरिति। करिष्यन्ती भक्तिरिति। कर्मधारयः। सम्बोधने उदाहरति-- हे करिष्यन्निति। "शयिष्यमाणाभोक्ष्यन्ते यवना" इति लक्षणे उदाहार्यम्। हेतावुदाहरति-- अर्जयिष्यन्वसतीति। प्रथमासामानाधिकरण्येऽपि क्वचिदिति। अप्रथमासामानादिकरण्याऽभावेऽपि क्वचिदित्यर्थः। कदाचिदित्यपि द्रष्टव्यम्। इदं च "लृट् शेषे चे"ति भविष्यदधिकारविहिते लृट()एव प्रवर्तते इति "अनवक्लृप्त्यमर्षे"त्यत्र भाष्ये स्पष्टम्।